SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ यतितक्षसभुय्यय प्रहरeu | गाथा : ८-६ टी :___ 'कल्पानाम्' आत्मप्रमाणायामसार्द्धद्विहस्तविस्तराणामागमप्रतीतानां 'प्रावरणं' परितो वेष्टनं प्रतीतमेव । ते हि किल कारणव्यतिरेकेण भिक्षाचर्यादौ गच्छता संवृताः स्कंधत एव वोढव्या इत्यागमाचारः, संप्रति प्राव्रियन्ते । अग्गोयर'त्ति अग्रावतारः परिधानविशेषः साधुजनप्रतीतस्तस्य त्याग:-कटीपट्टकस्यान्यथाकरणम्, तथा 'झोलिका' ग्रन्थिद्वयनियन्त्रितपात्रबन्धरूपा तया भिक्षा, आगमे हि मणिबन्धप्रत्यासन्नं पात्रबन्धाञ्चलद्वयं मुष्ट्या ध्रियते, कूर्परसमीपगमे च बध्यते इति व्यवस्था । तथौपग्रहिककटाहकतुम्बकमुखदानदवरकादयः सुविदिता एव साधूनामाचरिताः, संप्रतीति गम्यते इति । (धर्मरत्न प्र. गा.-८२) का : सिक्किको-दवरकरचितो भाजनाधारविशेषः, तत्र निक्षेपणं बन्धनम्, अर्थात् (अथ) पात्राणाम्, आदिशब्दाद्युत्तिलेपेन पात्रलेपनादि, तथा पर्युषणादितिथिपरावर्त्तः-पर्युषणा सांवत्सरिकम्, आदिशब्दाच्चातुर्मासकपरिग्रहः, तयोः तिथिपरावर्त्तः-तिथ्यन्तरकरणं, सुप्रतीतमेतत्, तथा भोजनविधेरन्यत्वं यतिजनप्रसिद्धमेव, 'एमाइत्ति प्राकृतशैल्यैवंशब्दे वकारलोपः, तत एवमादिग्रहणेन षट्जीवनिकायामप्यधीतायां शिष्य उत्थाप्य इत्यादि गीतार्थानुमतं विविधमन्यदप्याचरितं प्रमाणभूतमस्तीत्यवगन्तव्यम् । तथा च व्यवहारभाष्यम् "सत्थपरिन्ना छक्कायसंजमो पिंड उत्तरज्झाए । रुक्खे वसहे गोवे, जोहे सोही य पुक्खरिणी ॥१॥" अस्या अयमर्थलेश: शस्त्रपरिज्ञाध्ययने सूत्रतोऽर्थतश्चावगते भिक्षुरुत्थापनीय इत्यप्रमेयप्रभावपारमेश्वरप्रवचनमुद्रा, जीतं पुनः षट्कायसंयमो-दशवैकालिकचतुर्थाध्ययने षट्जीवनिकाख्ये ज्ञाते भिक्षुरुत्थाप्यत इति । तथा पिण्डैषणायां पठितायामुत्तराध्ययनान्यधीयन्ते स्म, संप्रति तान्यधीत्याचार उद्दिश्यते । पूर्व कल्पपादपा लोकस्य शरीरस्थितिहेतवोऽभूवन, इदानीं सहकारकरीरादिभिर्व्यवहारः । तथा वृषभाःपूर्वमतुलबला धवलवृषभा बभूवुः, संप्रति धूसरैरपि लोको व्यवहरति । तथा गोपा:-कर्षकाश्चक्रवर्तिगृहपतिरत्नवत् तद्दिन एव धान्यनिष्पादका आसन्, संप्रति ताद्दगभावेऽपीतरकर्षकैलॊको निर्वहति । तथा पूर्वं योधाः-सहस्रयोधादयः समभवन्, संप्रत्यल्पबलपराक्रमैरपि राजानः शत्रूनाक्रम्य राज्यमनुपालयन्ति । तद्वत् साधवोऽपि जीतव्यवहारेणापि संयममाराधयन्तीत्युपनयः । तथा शोधिःप्रायश्चित्तम्, पाण्मासिक्यामप्यापत्तौ जीतव्यवहारे द्वादशकेन निरूपितेति । पुष्करिण्योऽपि प्राक्तनीभ्यो हीना अपि लोकोपकारिण्य एवेति दार्टान्तिकयोजना पूर्ववत् । एवमनेकधा जीतमुपलभ्यत इति । (धर्मरत्न प्रकरणे गा.-८३)
SR No.022176
Book TitleYatilakshan Samucchay Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages334
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy