________________
ચતિલક્ષણસમુચ્ચય પ્રક્રણ / ગાથા : ૬
मार्ग आगमनीतिरथवा संविग्नबहुजनाचीर्णम् ।
उभयानुसारिणी या सा मार्गानुसारिणी क्रिया ॥६॥ गाथार्थ:
માર્ગ આગમનીતિ છે અથવા સંવિગ્ન બહુજનથી આચરિત માર્ગ છે, અને ઉભયને અનુસરનારી આગમનીતિને અને સંવિગ્ન બહુજનની આચરણાને અનુસરનારી, જે કિયા, તે માગનુસારી ક્રિયા छ. ||
टोs :___मृग्यते-अन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैयः स मार्गः, स च द्रव्यभावभेदाद् द्वेधा-द्रव्यमार्गो ग्रामादेः, भावमार्गो मुक्तिपुरस्य सम्यग्ज्ञानदर्शनचारित्ररूपः क्षायोपशमिकभावरूपो वा, तेनेहाधिकारः। स पुनः कारणे कार्योपचारादागमनीति:-सिद्धान्तभणिताचारः, अथवा संविग्न बहुजनाचीर्णमिति द्विरूपोऽवगन्तव्य इति । तत्रागमो-वीतरागवचनम् ।
उक्तं च -
"आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाऽत्वसम्भवात् ॥"
तस्य नीति:-उत्सर्गापवादरूपः शुद्धसंयमोपायः, स मार्गः । उक्तं च -
यस्मात् प्रवर्तकं भुवि, निवर्तकं चान्तरात्मो वचनम् । धर्मश्चैतत्संस्थो, मौनीन्द्रं चैतदिह परमम् (षोड० २-१३) अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः" (षोड० २-१४) । इति ।
तथा संविग्ना-मोक्षाभिलाषिणो ये बहवो जना अर्थाद् गीतार्थाः, इतरेषां संवेगायोगात्, तैर्यदाचीर्णमनुष्ठितं क्रियारूपम्, इह च संविग्नग्रहणमसंविग्नानां बहूनामप्यप्रमाणमतां दर्शयति, यद् व्यवहारः -
"जं जीयमसोहिकरं, पासत्थपमत्तसंजयाईहिं । बहुएहिवि आयरियं न पमाणं सुद्धचरणाणं ॥" ति ॥
बहुजनग्रहणं संविग्नोप्येकोऽनाभोगानवबोधादिभिर्वितथमप्याचरेत्ततः सोऽपि न प्रमाणमित्यतः संविग्नबहुजनाचरितं मार्ग इति । अत एवाह-उभयानुसारिणी याऽऽगमाबाधया संविग्नव्यवहारूपा सा मार्गानुसारिणी क्रियेति ।
आह-आगम एव मार्गो वक्तुं युक्तो बहुजनाचीर्णस्य पुनर्मार्गीकरणमयुक्तम्, शास्त्रान्तरविरोधादागमस्य चाप्रामाण्यापत्तेः ।