SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ ચતિલક્ષણસમુચ્ચય પ્રક્રણ / ગાથા : ૨૦૮ स्यादिति, एषः किं कुर्वन् ? 'चरणकरणं विसुद्धं उवबूहंतो परूवंतो 'त्ति चरणं-सप्ततिभेदं मूलगुणरूपं करणं-सप्ततिभेदमेवोत्तरगुणरूपं चरणं करणं चेति समाहारद्वन्द्वे चरणकरणं तत् विशुद्धं-नि:कलङ्कमुपद्व्हयन्-प्रशंसयन् प्ररूपयंश्च-यथावस्थितं प्रतिपादयन्निति । ___ अत्र चरणकरणस्वरूपं यथा-'वय ५ समणधम्म १० संजम १७ वेयावच्चं १० बंभगुत्तिओ ९ णाणाइतियं ३ तव १२ कोहनिग्गहाई ४ चरणमेयं ॥१॥ पिंडविसोही ४ समिई ५, भावण १२ पडिमा १२ य इंदियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चेव करणं तु ॥२॥' एतयोः क्रमेण व्यक्तिं, सव्वाओ पाणाइवायाओ वेरमणं १, सव्वाओ मुसावायाओ वेरमणं २, सव्वाओ अदिन्नादाणाओ वेरमणं ३, सव्वाओ मेहुणाओ वेरमणं ४, सव्वाओ परिग्गहाओ वेरमणं ५, इति व्रतानि । 'दसविधे समणधम्मे पं. तं. खंती १, मुत्ति २, अज्जवे ३, मद्दवे ४, लाघवे ५, सच्चे ६, संजमे ७, तवे ८, चियाए ९, बंभचेरवासे १० । क्रोधजयः १, निर्लोभता २, मायात्यागः ३, अहंकारत्यागः ४, परिग्रहत्यागः ५, सत्यं ६, (संयम:-) प्राणातिपात-विरमणरूपः ७, तपः ८, त्यागः-सुविहितेभ्यो वस्त्रादिदानरूप. ९, ब्रह्मचर्यम् १०, इति श्रमणधर्मः। पृथिव्य १ अप् २ तेजो ३ वायु ४ वनस्पति ५ द्वि ६ त्रि ७ चतुः ८ पञ्चेन्द्रियाणां पालनान्नव भेदाः ९ अजीवसंयमः-पुस्तकचर्मपञ्चकादीनां अनुपभोगो यतनया परिभोगो वा हिरण्यादित्यागो वा १०, प्रेक्षासंयमः-स्थानादि यत्र चिकीर्षेत्तत्र चक्षुषा प्रेक्ष्य कुर्यात् ११, उपेक्षासंयमोव्यापाराव्यापार-विषयतया द्वेधा । तत्र सद्गुष्ठाने सीदतः साधुन्नोपेक्षेत-प्रेरयेदित्यर्थः । गृहिणस्तु आरम्भे सीदत उपेक्षेत- न व्यापारयेत् १२, प्रमार्जनासंयमः-पथि पादयोर्वसत्यादेश्च विधिना प्रमार्जनं १३, परिष्ठापनः संयमः-अविशुद्धभक्तोपकरणादेविधिना त्यागः १४, मनोवाक्कायसंयमाःअकुशलानां मनोवाक्कायानां निरोधाः १७ । श्रीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः 'पञ्चाश्र-वाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ॥१॥' इति संयमः । 'दसविधे वेयावच्चे पं. तं.-आयरियवेयावच्चे १ उवज्झायवे, २ थेरवे. ३ तवस्सिवे, ४ गिलाणवे, ५ सेहवे ६ कुलवे ७ गणवे ८ संघवे ९ साहम्मियवेयावच्चे १० इति वैयावृत्त्यम् । नव बंभचेरगुत्तिओ पं. त.-विवित्ताइ सयणासणाई सेवित्ता भवति=णो इत्थिसंसत्ताई नो पसुसंसत्ताइं नो पंडगसंसत्ताइं १, नो इत्थीणं कहं कहेत्ता हवइ-नो स्त्रीणां केवलानां कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां २, नो इत्थिठाणाई सेवित्ता भवति, ठाणं निषद्या ३, णो इत्थीणं मणोहराई मणोरमाइं इंदियाइं आलोतित्ता निज्झाइत्ता भवइ ४, णो पणीयरसभोई ५, णो पाणभोयणस्स अइमायमाहारए सया भवति, ६, णो पुव्वरयं पुव्वकीलियं सरित्ता भवइ ७, णो सद्दाणुवाती णो रूवाणुवाई णो सिलोगाणुवाई ८, णो सायोसोखपिडबद्धे यावि भवइ ९, इति ब्रह्मगुप्तिः । ज्ञानदर्शनचारित्रलक्षणं ३ ज्ञानादित्रिकं, तपो द्वादशधा पूर्वोक्तं १२, क्रोधमानमायालोभत्यागः ४ क्रोधादिनिग्रहः इति चरणं ७० ।
SR No.022176
Book TitleYatilakshan Samucchay Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages334
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy