________________
૨૨૮
ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૧૬૯ ___स एकवचनदोषेणानन्तसंसारित्वमुपाया॑ऽप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव १ । ततश्च्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहित्दुहितुः कुक्षौ, कुलकलङ्कभीताभ्यां पितृभ्यां निविषयीकृता सा क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे दासीत्वेन स्थिता । मद्यमांसदोहदोऽस्याः सञ्जातः । बहूनां मद्यपायकानां भाजनेषूच्छिष्टे मद्यमांसे च भुते, कांस्यदूष्यदविणानि चोरयित्वाऽन्यत्र विक्रीय मद्यमांसे भुते । गृहस्वामिना राज्ञो निवेदितम् राजा मारणाय प्रसूतिसमयं यावदक्षितुमर्पिता चाण्डालानां, अप्रसूता न हन्यते इति तत्कुलधर्मत्वात् । प्रसूता बालकं त्यक्त्वा नष्टा । राजा पञ्चसहस्रदविणदानेन बालः पालितः । क्रमात् सूनाधिपतौ मृते राज्ञा स एव तद्गृहस्वामी कृतः पञ्चशतानामीशः २ । ततो मृत्वा सप्तमपृथिव्यां ३३ सागरायुः ३ । ततः उद्धृत्यान्तरद्वीपे एकोरुकजातिर्जातः ४ । ततो मृत्वा महिषः २६ वर्षायुः ५, ततो मनुष्यः ६, ततो वासुदेवः ७, ततः सप्तमपृथिव्यां ८, ततो गजकर्णो मनुष्यो मांसाहारी ९, ततो मृत्वा सप्तमपृथिव्यामप्रतिष्ठाने गतः १०, ततो महिषः ११, ततो बालविधवाबन्धकीब्राह्मणसुताकुक्षावुत्पन्नः, गर्भशातनपातनक्षारचूर्णयौगैरनेकव्याधिपरिगतो गलत्कुष्ठी कृमिभिर्भक्ष्यमाणो गर्भान्निर्गतः लोकैर्निन्द्यमानः क्षुधादिपीडितो दुःखी सप्तवर्षशतानि द्वौ मासौ चत्वारि दिनानि जीवित्वा १२, मृतो व्यन्तरेषूत्पन्नः १३, ततः सूनाधिपो मनुष्यः १४, ततः सप्तम्यां १५, ततश्चाक्रिकगृहे वृषभो वाह्यमानः क्वथितस्कन्धो मुक्तो गृहस्वामिना काककृमिश्वादिभिर्विलुप्यमानः २९ वर्षायुम॒तो १६, बहुव्याधिमानिभ्यपुत्रो वमनविरेचनादिदुःखैरेवास्य गतो मनुष्यभवः १७, एवं चतुर्दशरज्ज्वात्मकं लोकं जन्ममरणैः परिपूर्य अनन्तकालेनाऽपरविदेहे मनुष्योऽभवत् । तत्र लोकानुवृत्त्या गतस्तीर्थकरवन्दनाय, प्रतिबुद्धः, सिद्धः, अत्र त्रयोविंशतितमश्रीपार्श्वजिनस्य काले ।
गौतमोऽप्राक्षीत्-किं निमित्तमनेन दुःखमनुभूतं ? गौतम ! उत्सर्गापवादैरागमः इत्यादि यद् भणितं तन्निमित्तम् । यद्यपि प्रवचने उत्सर्गापवादौ अनेकान्तश्च प्रज्ञाप्यन्ते, तथापि अप्कायपरिभोगस्तेजःकायपरिभोगो मैथुनसेवनं चैकान्तेन निषिद्धानि, इत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं, ततश्चाज्ञाभङ्गः, तस्माच्चानन्तसंसारी । गौतमोऽप्राक्षीत्-किं तेन सावधाचार्येण मैथुनमासेवितम् ? गौतम ! नो सेवितं नोऽसेवितम्, यतस्तेन वन्दमानार्यास्पर्शे पादौ नाकुञ्चितौ । भगवन् ! तेन तीर्थकरनामकार्जितं एकभवावशेषीकृतश्चासीद्भवोदधिः, तत्कथनमनन्तसंसारं सम्भ्रान्तः ? गौतम ! निजप्रमाददोषात्, यतः सिद्धान्तेऽप्युक्तमस्ति-"चोद्दसपुव्वी आहारगावि, मणनाणिवीयरागा य । हुंति पमायपरवसा, तयणंतरमेव चउगइआ ॥१॥" इत्यादि । तस्माद् गच्छाधिपतिना सर्वदा सर्वार्थेषु अप्रमत्तेन भाव्यम् । इति पूर्वाचार्यसंस्कृतसावधाचार्यसम्बन्धः । ___ तथा "जे णं मददुआ ! अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं वा अदिटुं वा अस्सुयं वा अपरिन्नायं वा बहुजणमझे आघवेइ पण्णवेइ परूवेइ दंसेइ निदंसेइ, उवदंसेइ से णं अरिहंताणं आसायणाए वट्टइ, अरिहंतपण्णत्तस्स धम्मस्स आसायणाए वट्टइ, केवलीणं आसायणाए वट्टइ, केविलपण्णत्तस्स धम्मस्स आसायणाए वट्टइ" इति श्रीभगवत्यां अष्टादशशतकस्याष्टमो