________________
યતિલક્ષણસમુચ્ચય પ્રકરણ / ગાથા : ૧૬૯
लोकिकं फलं, पारलौकिकं तु तत्तदनेकदुस्सहदुःखसन्ततिसंवलितमनन्तसंसारित्वं श्री महानिशीथपञ्चमाध्ययनोक्त - सावद्याचार्यस्येव ज्ञेयम् । तथाहि
૨૨૭
अस्या ऋषभादिचतुर्विंशतिकायाः प्रागनन्तकालेन याऽतीता चतुर्विंशतिका, तस्यां मत्सदृशः सप्तहस्ततनुधर्मश्रीनामा चरमतीर्थकरो बभूव । तस्मिंश्च तीर्थकरे सप्ताश्चर्याणि अभूवन् । असंयतपूजायां प्रवृत्तायामनेके श्राद्धेभ्यो गृहीतद्रव्येण स्वस्वकारितचैत्यनिवासिनोऽभूवन् । तत्रैको मरकतच्छविः कुवलयप्रभनामा नगारो महातपस्वी उग्रविहारी शिष्यगणपरिवृतः समागात् । तैर्वन्दित्वोक्तंअत्रैकं वर्षारात्रिकचतुर्मासकं तिष्ठ, यथा त्वदीयाज्ञयाऽनेके चैत्यालया भवन्ति, कुर्वास्माकमनुग्रहं, तेनोक्तं-सावद्यमिदं नाहं वाङ्मात्रेणापि कुर्वे । तदेवमनेन भणता सता तीर्थकृन्नामकर्म्मार्जितं, एकभवशेषीकृतश्च भवोदधिः । ततस्तैः सर्वैरेकमतं कृत्वा तस्य सावद्याचार्य इति नाम दत्तं प्रसिद्धि नीतं च ।
तथाऽपि तस्य तेष्वीषदपि कोपो नाभूत् । अन्यदा तेषां लिङ्गमात्रप्रव्रजितानां मिथः आगमविचारो बभूव । यथा श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र करणीयं तस्यापि करणे न दोषः । केऽप्याहुः- संयमो मोक्षनेता, केचिदूचुः प्रासादावतंसके पूजासत्कारबलिविधानादिना तीर्थोत्सर्पणेनैव मोक्षगमनम् । एवं तेषां यथेच्छं प्रलपतां विवादेऽन्य आगमकुशलो नास्ति कोऽपि यो विवादं भनक्ति । सर्वैः सावद्याचार्य एव प्रमाणीकृत आकारितो दूरदेशात्सप्तभिर्मासैर्विहरन् समागात् । एकयार्यया श्रद्धावशात् प्रदक्षिणीकृत्य झटिति मस्तकेन पादौ सङ्घट्टयन्त्या ववन्दे दृष्टस्तैर्वन्द्यमानः ।
अन्यदा स तेषामग्रे श्रुतार्थकथनेऽस्यैव महानिशीथस्य पञ्चमाध्ययन व्याख्याने आगतेयं गाथा, 'जत्थित्थीकरफरिसं, अंतरियं कारणे वि उप्पन्ने । अरिहा वि करिज्ज सयं तं गच्छं मूलगुणमुक्कं ॥१॥ आत्मशङ्कितेन तेन चिन्तितं साध्वीवन्दनमेतैर्दष्टमस्ति, सावद्याचार्य इति नाम पुरापि दत्तं, साम्प्रतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति । अन्यथा प्ररूपणे तु महत्याशातना अनन्तसंसारिता च स्याताम्, ततः किं कुर्वे, अथवा यद् भवति तद् भवतु यथार्थमेव व्याकरोमीति ध्यात्वा व्याख्याता यथार्था गाथा । तैः पापैरुक्तं यद्येवं तत् त्वमपि मूलगुणहीनो, यतः साध्व्या वन्दमानया भवान् स्पृष्टः, ततोऽयशोभीरुः स दध्यौ किमुत्तरं ददे । आचार्यादिना किमपि पापस्थानं न सेवनीयं त्रिविधं त्रिविधेन, यः सेवते सोऽनन्तसंसार भ्राम्यति । तैर्विलक्षं दष्ट्वोचे किं न वक्ष्यसि । सदध्यौ किं वदामि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्-अयोग्यस्य श्रुतार्थो न दातव्य: 'आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥ १ ॥ ' इत्यादि । तैरूचे किम-सम्बद्धं भाषसे, अपसर दृष्टिपथात् । अहो त्वमपि सङ्घन प्रमाणीकृतोऽसि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तं, उत्सर्गापवादैरागमः स्थितो, यूयं न जानीथ । " एगंतं मिच्छत्तं जिणाण आणा अणेगत्तं ।" तैर्धृष्टैर्मानितं, ततः स प्रशंसितः ।