________________
अधिकार बीजो - घटिकादिनुं प्रमाण
त्रिषष्टिस्ततो जातं तोल्यत्वपरिमाणं नक्षत्रमासे एकाशीति रास्त्रिषष्टिश्च सप्तषष्टिांगा भारस्य, तथैकैकस्मिन् मुहूर्ते चत्वार आढका इति मुहूर्तपरिमाणमनन्तरोक्तं सर्वमपि चतुर्भिर्गुण्यते तत आगतानि नक्षत्रमासे मेयपरिमाणचिन्तायामाढकानां द्वात्रिंशच्छतानि सप्तसप्तत्यधिकानि एकचत्वारिंशच्च सप्तषष्टिभागा आढकस्य ३२७७-४१ । ६७ । अभिवद्धितमासे एकत्रिंशदहोरात्रा एकविंशत्युत्तरं च शतं चतुर्विंशत्युत्तरशतभागानामहोरात्रस्य, तत्र मुहूर्त्तानयनार्थमेकत्रिंशदहोरात्रास्त्रिंशता गुण्यन्ते, जातानि नव शतानि त्रिंशदधिकानि ९३०, यदपि चैकविंशत्युत्तरं शतं भागानां तदपि त्रिंशता गुण्यते, जातानि षट्त्रिंशच्छतानि त्रिंशदधिकानि ३६३०, एतेषां चतुर्विशत्युत्तरेण शतेन भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्ताः, शेषमुद्धरति चतुर्विंशत्युत्तरशतभागानां चतुस्त्रिंशद्भागाः, मुहूर्ताश्च मुहूर्तराशौ प्रक्षिप्यन्ते, ततो जातमभिवर्द्धिते मासे सर्वसंकलनया मुहूर्तपरिमाणं नव शतान्येकोनषष्ट्यधिकानि चतुस्त्रिंशच्च चतुर्विंशत्युत्तरशतभागाः ९५९-३४ । १२४, मुहूर्ते च घटिकाद्वयमित्येतदेव मुहूर्तपरिमाणं घटिकानयनाय द्वाभ्यां गुण्यते, जातान्येकोनविंशतिः शतान्यष्टादशाधिकानि घटिकानामष्टषष्टिश्चतुर्विंशत्युत्तरशतभागानाम् १९१८-६८ । १२४ एकैकस्यां च घटिकायां द्वौ द्वावाढकाविति घटिकापरिमाणमिदं मेयरूपतया चिन्तायामाढकानयनाय द्वाभ्यां गुण्यते जातान्याढकानामष्टात्रिंशच्छतानि सप्तत्रिंशदधिकानि द्वादश च चतुर्विंशत्युत्तरशतभागा आढकस्य ३८३७-१२ । १२४ तथाहि-एकैकस्मिन्नहोरात्रे भारत्रयमित्येकत्रिंशदहोरात्रास्त्रिभिर्गुण्यन्ते, जाता स्त्रिणवतिर्भाराः, यदपि चैकविंशत्युत्तरं शतं तदपि त्रिभिर्गुण्यते, जातानि त्रीणि शतानि त्रिषष्ट्यधिकानि ३६३, तेषां च चतुर्विशत्युत्तरेण शतेन भागो हियते, लब्धौ द्वौ भारी, तौ च पूर्वराशौ प्रक्षिप्येते, शेषं पंचदशोत्तरं शतं, तत आगतं तोल्यचिन्तायामभिवर्द्धितमासे परिमाणं पंचनवतिर्भाराः शतमेकं पंचदशोत्तरं चतुर्विंशत्युत्तरशतभागानां ९५-११५ । १२४ यदा तु मासस्य त्रिंशत्तमोभागो दिवस इति दिवसलक्षणमनुसृत्य सूर्यमासादिदिवसपरिमाणं चिन्त्यते तदा यदेव तस्य २ मासस्य दिवसापेक्षया परिमाणं तदेव तस्य तस्य दिवसस्य मुहूर्तापेक्षया परिमाणमवसेयं, यथा सूर्यस्य दिवसस्य त्रिंशन्मुहूर्ता अर्धश्च परिमाणं, कर्मदिवसस्य त्रिंशन्मुहूर्ताः, चन्द्रदिवसस्यैकोनत्रिंशन्मुहूर्ता द्वात्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य, नक्षत्रदिवसस्य सप्तविंशतिर्मुहूर्ता एकविंशतिश्च सप्तषष्टिभागा मुहूर्त्तस्य, अभिवर्द्धितदिवसस्यैकत्रिंशन्मुहूर्ता एकविंशत्युत्तरं च शतं चतुर्विंशत्युत्तरशतभागानां मुहूर्तस्य । तथा सूर्यदिवसस्यैकषष्टिर्धटिकाः परिमाणं, कॅर्मदिवसस्य