________________
अधिकार बीजो - घटिकादिनुं प्रमाण त्रिंशदधिकानामेकषष्ट्या भागो ह्रियते लब्धास्त्रिंशदहोरात्रा एतावत् कर्ममासेऽहोरात्रपरिमाणं, चन्द्रमासा युगे द्वाषष्टिस्ततत्रिंशदधिकानामष्टादशशतानां द्वाषष्ट्या भागहरणं, लब्धा एकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतावच्चन्द्रमासपरिमाणं । तथा नक्षत्रमासा युगे सप्तषष्टिः, ततः सप्तषष्ट्या अष्टादशशतानां त्रिंशदधिकानां भागो हियते, लब्धाः सप्तविंशतिरहोरात्राः सप्तषष्टिश्चैकविंशतिभागाः, इदं नक्षत्रमासपरिमाणं । तथाऽभिवर्द्धितमासा युगे सप्तपंचाशत् ततोऽष्टादशशतानां त्रिंशदधिकानां सप्तपंचाशता भागो हियते, लब्धा द्वात्रिंशदहोरात्राः, शेषास्तिष्ठन्ति षट्, तत्र सप्तपंचाशन्मासानामुपरि सप्ताहोरात्रा एकादश मुहूर्ताः एकस्य च मुहूर्तस्य त्रयोविंशतिषष्टिभागा वर्तन्ते, तत्र सप्तभ्यः षट् पातिताः शेष एकोऽहोरात्रस्तिष्ठति, स च चतुर्विंशत्युत्तरशतभागीक्रियते, ये चैकादश मुहूर्ता एकस्य च मुहूर्तस्य त्रयोविंशतिषष्टिभागाः, एतावन्तः सप्तचत्वारिंशच्चतुर्विंशत्युत्तरशतभागा लभ्यन्ते, एतच्च प्रागेव भावितं, ततः सप्तचत्वारिंशच्चतुर्विंशत्युत्तरशतमध्ये प्रक्षिप्यते, जातमेकसप्तत्यधिकं शतं, तस्य सप्तपंचाशता भागे हृते लब्धास्त्रयश्चतुर्विंशत्युत्तरशतभागाः, एतावता हीना द्वात्रिंशदहोरात्राः, किमुक्तं भवति ?एकत्रिंशदहोरात्रा एकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानामिति, एतावत्परिमाणमभिवर्द्धितमासस्य । सम्प्रति सूर्यादिमासेषु मुहूर्तादिपरिमाणं चिन्त्यते, तत्र सूर्यमासे त्रिंशदहोरात्रा एकं चाहोरात्रस्यार्द्ध, अहोरात्रे च त्रिंशन्मुहूर्तास्ततस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि, अहोरात्राद्धे च पंचदश मुहूर्तास्ततः सर्वसंख्यया सूर्यमासे नव शतानि पंचदशोत्तराणि मुहूर्तानां भवन्ति ९१५, एकैकस्मिंश्च मुहूर्ते द्वे द्वे घटिके इति नव शतानि पंचदशोत्तराणि द्वाभ्यां गुण्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावत्सूर्यमासे घटिकानां परिमाणं भवति । मेयरूपतया तु चिन्तायामेकैको मुहूर्त्तश्चतुराढकप्रमाण इति मुहूर्तानां नव शतानि पंचदशोत्तराणि चतुर्भिर्गुण्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ३६६०, एतावन्तः सर्वसंख्यया सूर्यमासे आढकाः । तोल्यत्वचिंतायामेकैकस्मिन्नहोरात्रे त्रयो भारास्ततस्त्रिंशत्रिभिर्गुण्यते जाता नवतिः ९०, अहोरात्रा॰ च सार्हो भार इति सर्वसङ्कलनया सूर्यमासे सार्द्धा एकनवतिर्भाराः । तथा कर्ममासे त्रिंशदहोरात्रास्ततो मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि नव शतानि ९००, एतावन्तः कर्ममासे मुहूर्ताः, एत एव मुहूर्ता घटिकानयनाय द्वाभ्यां गुण्यन्ते, प्रतिमुहूर्ते घटिकाद्वस्य भावात्, जातान्यष्टादश शतानि १८००, एतावत्कर्ममासे घटिकानां परिमाणं, तथा मुहूर्ते चत्वार आढका इति तदेव