________________
ज्योतिष्करण्डकम्
शतानि त्रिंशदधिकानि १८३०, युगस्यापि च सम्बन्धिनस्त्रिंशदधिकाष्टादशशतप्रमाणा अहोरात्राः सप्तषष्ट्या गुण्यन्ते, जात एको लक्षो द्वाविंशतिः सहस्राणि षट् शतानि दशोत्तराणि १२२६१०, एतेषामष्टादशशतैस्त्रिंशदधिकैर्नक्षत्रमाससत्कसप्तषष्टिभागरूपैर्भागो हियते, लब्धाः सप्तषष्टिर्मासाः ॥ ५८ ॥ अभिवर्द्धितसंवत्सरसत्के मासे परिगण्यमाने सर्वसंख्यया युगेऽभिवर्द्धितमासाः सप्तपञ्चाशद् भवन्ति, सप्तरात्रिन्दिवानि एकादश मुहूर्ताः एकस्य च मुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशतिः, तथाहि-अभिवर्द्धितो मास एकत्रिंशदहोरात्रा एकविंशत्युत्तरं शतं च चतुर्विशत्युत्तरशतभागानामहोरात्रस्य, तत एकत्रिंशदहोरात्राश्चतुर्विशत्युत्तरशतभागकरणार्थं चतुर्विशत्युत्तरेण शतेन गुण्यन्ते, जातान्यष्टात्रिंशच्छतानि चतुश्चत्वारिंशदधिकानि ३८४४, तत उपरितनमेकविंशत्युत्तरं शतं भागानां तत्र प्रक्षिप्यन्त, जातान्येकोनचत्वारिंशच्छतानि पंचषष्ट्यधिकानि ३९६५, यानि च युगेऽहोरात्राणामष्टादश शतानि त्रिंशदधिकानि १८३० तानि चतुर्विशत्युत्तरेण शतेन गुण्यन्ते, जाते द्वे लक्षे षड्विंशतिः सहस्राणि नव शतानि विंशत्यधिकानि २२६९२०, तत एतेषामेकोनचत्वारिंशच्छतैः पंचषष्ट्यधिकैरभिवर्द्धितमाससत्कचतुर्विशत्युत्तरशतभागरूपैर्भागो हियते, लब्धाः सप्तपंचाशन्मासाः, शेषास्तिष्ठन्ति नव शतानि पंचदशोत्तराणि ९१५, तेषामहोरात्रानयनाय चतुर्विशत्यधिकेन शतेन भागो हियते, लब्धानि सप्त रात्रिंदिवानि, शेषस्तिष्ठन्ति चतुर्विशत्युत्तरशतभागाः सप्तचत्वारिंशत्, तत्र चतुर्भिर्भागैरेकस्य च भागस्य चतुर्भिस्त्रिशद्भागैर्मुहूत्र्तो भवति, तथाहि-एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ताः, अहोरात्रे च चतुर्विशत्युत्तरं शतं भागानां कल्पितमास्ते, तस्य चतुर्विशत्युत्तरशतस्य त्रिंशता भागे हृते लब्धाश्चत्वारो भागाः, एकस्य च भागस्य सत्काश्चत्वारस्त्रिंशद्भागाः, तत्र पंचचत्वारिंशद्भागैरेकस्य च भागस्य सत्कैश्चतुर्दशभिस्त्रिंशद्भागैरेकादश मुहूर्ता लब्धाः शेषस्तिष्ठति एको भाग एकस्य च भागस्य सत्काः षोडश त्रिंशद्भागाः, किमुक्तं भवति ?- षट्चत्वारिंशत्रिशद्भागाः, एकः, एकस्य च भागस्य सत्काः (षोडश) शेषास्तिष्ठन्ति, ते च किल मुहूर्तस्य चतुर्विशत्युत्तरशतभागास्ततः षट्चत्वारिंशतः चतुर्विशत्युत्तरशतस्य च द्विकेनापवर्त्तना क्रियते लब्धा मुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशतिः ॥ एवंसंख्याकैश्च मासैर्यदाऽष्टादश शतानां त्रिंशदधिकानामहोरात्राणां भागो हियते तदा यथोक्तं मासगतदिवसपरिमाणमागच्छति, तद्यथा-युगे किल सूर्यमासापेक्षया षष्टिर्मासास्ततोऽष्टादशशतानां त्रिंशदधिकानां षष्ट्या भागे हृते लब्धास्त्रिंशदिवसा अर्द्धदिवसश्च, एतावन्तो, दिवसाः सूर्यमासे, तथैकषष्टिश्च कर्ममासा युगे, ततोऽष्टादशशतानां