________________
अधिकार बीजो घटिकादिनुं प्रमाण
-
३३
-
एकविंशतिर्मुहूर्त्ताः, शेषास्तिष्ठन्त्यष्टादश द्वाषष्टिभागा मुहूर्त्तस्य, मुहूर्त्ताश्च मुहूर्त्तराशौ प्रक्षिप्यन्ते, यथोक्तं परिमाणमागच्छति ॥ ४७ ॥ सम्प्रति तोल्यरूपतया मेयरूपतया च क्रमेण पंचानामपि संवत्सराणां क्रियते चिन्ता, तत्र सूर्यसंवत्सरस्तोल्यरूपतया चिंत्यमानो भारसहस्रमष्टानवत्यधिकं १०९८, तथाहि सूर्यसंवत्सरे त्रीणि शतानि षट्षष्ट्यधिकान्यहोरात्राणां, अहोरात्रो भारत्रितयप्रमाणः, ततस्त्रीणि शतानि षट्षष्ट्यधिकानि त्रिभिर्गुण्यन्ते, जातं सहस्रमष्टानवत्यधिकमिति । मेयरूपतया तु स एव सूर्यसंवत्सरश्चिन्त्यमानस्त्रिचत्वारिंशदाढकसहस्राणि नव शतानि विंशत्युत्तराणि ४३९२०, तथाहि - एकैकस्मिन्नहोरात्रे विंशत्युत्तरमाढकशतं भवति, ततस्त्रीणि शतानि षट्षष्ट्यधिकानि विंशत्युत्तरेण शतेन गुण्यन्ते, गुणने च सति यथोक्तमाढकपरिमाणमागच्छति ॥ कर्मसंवत्सरे तोल्यरूपतया मेयरूपतया च चिंता प्रागेव कृता । चन्द्रसंवत्सरस्तोल्यरूपतया चिन्त्यमानो भारसहस्रं द्वाषष्ट्यधिकं षट्त्रिंशच्च द्वाषष्टिभागा भारस्य १०६२ - ३६/६२ तथाहि - चान्द्रे संवत्सरे त्रीण्यहोरात्रशतानि चतुष्पंचाशदधिकानि द्वादश च द्वाषष्टिभागा १२२६२ रात्रिंदिवस्य, एकैकस्मिंश्च रात्रिंदिवे भारत्रयं तत्र त्रीणि शतानि चतुष्पंचाशदधिकानि त्रिभिर्गुण्यन्ते, जातानि दश शतानि द्वाषष्ट्यधिकानि भाराणां येऽपि च द्वादश द्वाषष्टिभागास्तेऽपि त्रिभिर्गुण्यन्ते, जाताः षट्त्रिंशद् द्वाषष्टिभागा भारस्य, मेयरूपतया तु स एव चान्द्रः संवत्सरश्चित्यमानो द्विचत्वारिंशत्सहस्राणि पंच शतान्युत्तराण्याढकानां भवन्ति चतुर्दश च द्वाषष्टिभागा आढकस्य ४२५०३ - १४।६२ तथाहि त्रीणि शतानि चतुष्पंचाशदधिकानि विंशत्युत्तरेण शतेन गुण्यन्ते, एकैकस्मिन् रात्रिंदिवे विंशत्युत्तरस्याढकशतस्य भावाज्जातानि द्विचत्वारिंशत्सहस्राणि चत्वारि शतान्यशीत्यधिकान्याढकानां ४२४८०, येऽपि च द्वादश द्वाषष्टिभागास्तेऽपि विंशत्युत्तरेण शतेन गुण्यन्ते, जातानि चतुर्दश शतानि चत्वारिंशदधिकानि १४४०, तेषां द्वाषष्ट्या भागे हृते लब्धास्त्रयोविंशतिराढकाः, शेषास्तु चतुर्दश द्वाषष्टिभागास्तिष्ठन्ति, आढकाश्चाढकाराशौ प्रक्षिप्यन्ते, ततो यथोक्तमाढकपरिमाणं भवति । नक्षत्रसंवत्सरस्तोल्यरूपतया चिन्त्यमानो नव भारशतानि त्र्यशीत्यधिकानि एकोनविंशतिश्च सप्तषष्टिभागा भारस्य ९८३-१९।६७ तथाहि - नक्षत्रसंवत्सरे त्रीणि शतानि सप्तविंशत्यधिकान्यहोरात्राणां एकपंचाशच्च सप्तषष्टिभागा अहोरात्रस्य, एकैकस्मिश्चाहोरात्रे भारत्रयं, ततस्त्रीणि शतानि सप्तविंशत्यधिकानि त्रिभिर्गुण्यन्ते, जातानि नव शतान्येकाशीत्यधिकानि