SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् ततस्त्रीणि शतानि षट्षष्ट्यधिकानि त्रिंशता गुण्यन्ते, ततो यथोक्तं मुहूर्तपरिमाणं भवति ॥ ४३ ॥ 'कर्मवर्षस्य' कर्मसंवत्सरस्य मुहूर्तगणितमेतज्ज्ञातव्यं, यदुत दश सहस्राणि परिपूर्णानि चाष्टौ शतानि १०८०० तथाहि-कर्मसंवत्सरे रात्रिंदिवानि त्रीणि शतानि षष्ट्यधिकानि, ततस्तानि त्रिंशता गुण्यन्ते, ततो यथोक्तं मुहूर्तगणितमागच्छति ॥ ४४ ॥ 'चान्द्रे' चन्द्रसंवत्सरे 'मुहूर्तगणितं' मुहूर्तपरिमाणं' दश सहस्राणि षट् शतानि 'पञ्चविंशानि' पञ्चविंशत्यधिकानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य द्वाषष्टिभागाः परिपूर्णाः पञ्चाशत् १०६२५-५०।६२ तथाहि-चान्द्रे संवत्सरे रात्रिदिवानि त्रीणि शतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, ततस्त्रीणि शतानि चतुष्पञ्चाशदधिकानि रात्रिंदिवानां त्रिंशता गुण्यन्ते, जातानि मुहूर्तानां दश सहस्राणि षट् शतानि विंशत्यधिकानि १०६२०, येऽपि च द्वादश द्वाषष्टिभागा रात्रिंदिवस्य तेऽपि त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ठधिकानि ३६०, एतेषां द्वाषष्ट्या भागे हृते लब्धाः पंच मुहूर्ताः, शेषास्तिष्ठन्ति पंचाशद् द्वाषष्टिभागा मुहूर्तस्य, मुहूर्ताश्च मुहूर्तराशौ, प्रक्षिप्यन्ते, ततो यथोक्तं मुहूर्तप्रमाणं भवति १०६२५-५०६२ ॥४५॥ 'नक्षत्रे' नक्षत्रसम्बन्धिनि संवत्सरे मुहूर्तानां नव सहस्राण्यष्टौ शतानि 'द्वात्रिंशानि' द्वात्रिंशदधिकानि भवन्ति षट्पंचाशच्च सप्तषष्टिभागा मुहूर्तस्य ९८३२५६।६७ तथाहि-नक्षत्रसंवत्सरे त्रीण्यहोरात्रशतानि सप्तविंशत्यधिकानि एकपंचाशच्च सप्तषष्टिभागा रात्रिदिवस्य, तत्र त्रीणि शतानि सप्तविंशत्यधिकानि त्रिंशता गुण्यन्ते, जातानि नव सहस्राण्यष्टौ शतानि दशोत्तराणि ९८१०, येऽपि चैकपंचाशत्सप्तषष्टिभागा रात्रिंदिवस्य, तेऽपि त्रिंशता गुण्यन्ते, जातानि पंचदश शतानि त्रिंशदधिकानि १५३०, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा द्वाविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्ति षट्पंचाशत् सप्तषष्टिभागाः, मुहूर्ताश्च मुहूर्तराशौ प्रक्षिप्यन्ते, ततो भवति यथोक्तं मुहूर्तपरिमाणमिति ॥४६॥ अभिवर्द्धिते संवत्सरे मुहूर्ता भवन्ति-एकादश सहस्राणि पंच शतान्येकादशानि-एकादशाधिकानि अष्टादश च द्वाषष्टिभागा मुहूर्तस्य ११५११-१८६२ तथाहि-अभिवर्द्धिते संवत्सरे रात्रिदिवानां त्रीणि शतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा रात्रिंदिवस्य ३८३-४४।६२, तत्र त्रीणि शतानि त्र्यशीत्यधिकानि त्रिंशता गुण्यन्ते, जातान्येकादश सहस्राणि चत्वारि शतानि नवत्यधिकानि ११४९०, येऽपि च चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि त्रिंशता गुण्यन्ते, जातानि त्रयो दश शतानि विंशत्यधिकानि १३२०, तेषां द्वाषष्ट्या भागो हियते, लब्धा
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy