________________
अधिकार बीजो - घटिकादिनुं प्रमाण
इय एस कमो भणिओ नियमा संवच्छरस्स कम्मस्स ।
कम्मोत्ति सावणोत्ति य उत्ति य तस्स नामाणि ॥ ३२ ॥ 'उदे'त्यादि, यावत्प्रमाणच्छिद्रेण प्रविष्टेन नालिका परिपूर्णा भवति, तावत्प्रमाणस्य नालिकोदकस्य मेयप्रमाणचिन्तायां द्वावाढको परिमाणं भवति, धरिमप्रमाणचिन्तायां पुनः पलशतं, उदकमपि च नालिकायोग्यं यादृशमीप्सितव्यं तच्च' तादृशं च तदुदकं वक्ष्यामि, ॥ २८ ॥ तदेवाह- 'एये' त्यादि, ‘एतस्य' नालिकायोग्यस्योदकस्य प्रथमं परिकम्मॆतद् द्रष्टव्यं-यदुत दूष्यपट्टगालितं कर्त्तव्यं, अथवा यत्स्वभावत एव 'मेघोदकं' मेघेषु वर्षत्सु यत्कस्मिन्निर्लेपे शुभे स्थाने ध्रियते तन्मेघोदकं तद्वा नालिकायोग्यं ग्रहीतव्यं, यदिवा यद् गिरिनदीनां जलं 'शारदं' शरत्कालभावि प्रसन्नं तदिति ॥ २९ ॥ तदेवं नालिकायोग्यमुदकं नालिकोदकपरिमाणं चाभिधाय सम्प्रति मुहूर्तादिप्रमाणमाह- 'बेनाली' त्यादि, द्वे 'नालिके' घटिके समुदिते एको मुहूर्त्तः, स च धरिमप्रमाणचिन्तायां वे पलशते मेयप्रमाणचिन्तायां चत्वार आढकाः, षष्टिः पुनः 'नालिकाः' घटिकाः समुदिता एकोऽहोरात्रः त्रिंशन्मुहूर्त्ता एकोऽहोरात्रमित्यर्थः, तत्र च मेयप्रमाणचिंतायां विंशत्युत्तरमाढकशतं धरिमप्रमाणचिंतायां षट् पलसहस्राणि, तानि यदि भारीकृत्य चिंत्यन्ते तदा त्रयो भारा भवन्ति, पंचदशाहोरात्रा एकः पक्षः, स च मेयप्रमाणचिंतायामष्टादशाढकशतानि धरिमप्रमाणचिंतायां पंचचत्वारिंशद्भाराः, तथा त्रिंशद् ‘दिनानि' अहोरात्रा एको मासः, स च धरिमप्रमाणचिंतायां नवतिर्भाराः मेयप्रमाणचिन्तायां षट्त्रिंशदाढकशतानि ॥ ३० ॥ 'संवच्छरे' त्यादि, ते अनन्तरोक्तप्रमाणा मासा द्वादशसंख्या एकः संवत्सरो भवति, ते च द्वादश मासाः पक्षतया चिंत्यमानाश्चतुर्विशतिः पक्षा भवन्ति, रात्रिंदिवसतया चित्यमानास्त्रीणि शतानि षष्टानि-षष्ट्यधिकानि भवन्ति 'रात्रिंदिवानाम्' अहोरात्राणां, एष च संवत्सरो यदा मेयरूपतया चिंत्यते तदा शतद्वयाधिकानि त्रिचत्वारिंशत्सहस्त्राण्याढकानां भवन्ति ४३२००, तोल्यरूपतया तु चिंत्यमानो भाराणामेकं सहस्रमशीत्यधिकं १०८०, एष च संवत्सरो लोके कर्मसंवत्सर इति ऋतुसंवत्सर इति च प्रसिद्धिं गतः, तथाहिलौकिकास्त्रिंशतमहोरात्रान् मासं परिगणयंति, इत्थम्भूतमासद्वयात्मकं च वसन्तादिकमृतुं, तथाभूतानां च षण्णां वसन्तादीनामृतूनां समुदायं संवत्सरं, यानि च लोके कर्माणि प्रवर्त्तते तानि सर्वाण्यमुं संवत्सरमधिकृत्येत्येष कर्मसंवत्सरः सावनसंवत्सर ऋतुसंवत्सर इति ख्यातः ॥३१॥ तथा चाह- 'इथे' त्यादि, 'एष' पूर्वोक्तक्रमो 'भणितः' ज्ञातव्यो नियमात् 'कर्मणः'