________________
ज्योतिष्करण्डकम्
ऽनुपयोगात्, ततः प्रथमा रेखा 'अर्द्धकर्षा' अर्द्धकर्षरूपपरिमाणसूचिका भवति, ततः ‘कर्षोत्तराः' कर्षाद्येकैककर्षवृद्धिसूचिकाश्चतस्त्रो रेखा भवन्ति, तद्यथा - द्वितीया कर्षरूपपरिमाणसूचिका तृतीया द्विकर्षसूचिका चतुर्थी त्रिकर्षसूचिका पंचमी चतुः कर्षसूचिका, पलसूचिकेत्यर्थः, 'तत्तो' इत्यादि, ततः- पंचमरेखाया ऊर्ध्वं रेखाः 'पलोत्तराः' एकैकपलवृद्धिसूचिकास्तावदवसेया यावद्दकमिति - दशपलसूचिका रेखा, तद्यथा - षष्ठी रेखा द्विपलसूचिका सप्तमी त्रिपलसूचिका अष्टमी चतुष्पलसूचिका नवमी पंचपलसूचिका दशमी षट्पलसूचिका एकादशी सप्तपलसूचिका द्वादश्यष्टपलसूचिका त्रयोदशी नवपलसूचिका चतुर्दशी दशपलसूचिका 'बारसे' त्यादि ततः पंचदशी रेखा द्वादशपलसूचिका षोडशी पंचदशपलसूचिका सप्तदशी विंशतिपलसूचिका 'एत्तोदसुत्तरा अट्ठ' त्ति अत ऊर्ध्वमष्टौ रेखाः ‘दशोत्तराः' दशकवृद्धया पलपरिमाणसूचिकाः, तद्यथा - अष्टादशी रेखा त्रिंशत्पलसूचिका एकोनविंशतितमा चत्वारिंशत्पलसूचिका विंशतितमा पंचाशत्पलसूचिका एकविंशतितमा षष्टिपलसूचिका द्वाविंशतितमा सप्ततिपलसूचिका त्रयोविंशतितमाऽशीतिपलसूचिका चतुर्विंशतितमा नवतिपलसूचिका पंचविंशतितमा पलशतसूचिका, शतिके क पंचविंशतितमा रेखा भवतीत्यर्थः, 'एवम्' उक्तेन प्रकारेण रेखाणां 'सर्वसमासः' सर्वसंक्षेपः सर्वसंख्येत्यर्थः पंचविंशतिरिति ॥ २२ - २३ ॥ यदुक्तं पंचविंशतिरेखाणां मध्ये चतस्रो रेखा नन्दीपिनद्धिका इति तद् व्याचिख्यासुराह - 'पंचे' त्यादि, पंचसु पंचदशसु त्रिंशति पंच च या रेखास्ता नन्दीपिनद्धिकाः किमुक्तं भवति ? - पंचपलपरिमाणसूचिका पंचदशपलपरिमाणसूचिका त्रिंशत्पलपरिमाणसूचिका पंचाशत्पलपरिमाणसूचिका, एताश्चतस्त्रो रेखा: फुल्लडिकायुक्ताः, शेषा एकविंशतिसंख्या ऋजवः ॥ २४ ॥ तदेवमुक्तं तुलास्वरूपं, सम्प्रति मेयप्रमाणमाह
१८
गाथार्थ :- जहींतेर खांगण सांजी, यांत्रीश सोहपसोनी, गोज खने સર્વાગ્રથી તુલામાં પચ્ચીશ
પાંચપલધરણના સમાય કરણમાં તુલા થાય છે. ૨૦ | रेखासो होय छे, यार नंहि पिनद्ध रेषाखो होय छे. ॥ २१ ॥ तेमां समरशी, અધકર્ષની ત્યારબાદ એક-એક કર્ષની ઉત્તરોત્તર ચાર રેખાઓ, પછી એક-એક પલની દશ પલ સુધીની રેખાઓ હોય છે. ૨૨ ॥ બાર, પંદર, વીશ ત્યાંથી દશોત્તરા આઠ રેખાઓ એ રીતે સર્વ મળીને પચ્ચીશ રેખાઓ હોય છે. પાંચ, પંદર, ત્રીસ અને પચાશ