________________
अधिकार बीजो - घटिकादिनुं प्रमाण
તુલમાન-પ્રમાણ पणतीस लोहपलिया वट्टा बावत्तरंगुला दीहा । पंचपलधरणगस्स य समायकरणे तुला होइ ॥ २० ॥ सव्वग्गेण तुलाए लेहाओ पण्णवीसई होति । चत्तारि य लेहाओ जाओ नंदीपिणद्धाओ ॥ २१ ॥ समकरणि अद्धकरिसा तत्तो करिसुत्तरा य चत्तारि । तत्तो पलुत्तराओ जाव य दसगोत्ति लेहाओ ॥ २२ ॥ बारस पन्नरस वीसगे य एत्तो दसुत्तरा अट्ठ। एवं सव्वसमासो लेहाणं पन्नवीसं तु ॥ २३ ॥ पंचसु पन्नारसगे तीसगपन्नासगे य लेहाओ ।
नंदीपिणद्धिकाओ सेसाओ उज्जुलेहाओ ॥ २४ ॥ सुगालितानां पञ्चत्रिंशत्संख्यानां लोहपलानामत्यर्थं घनैः कुट्टनेन निर्मापिता 'वृत्ता' सुवृत्ता, विषमोन्नतिहीनेत्यर्थः, द्वासप्तत्यंगुलदीर्घा 'पंचपलधरणगस्स य' त्ति ध्रियते येन तद्धरणं धरणमेव धरणकं, येन धृत्वा तोल्यते तदित्यर्थः तस्य प्रमाणं पञ्च पलानि कर्तव्यानि, ततः समायकरणे-धरणके तुलायां संयोजिते सति यत्र प्रदेशे तुला ध्रियमाणा समा भवति नैकस्मिन्नपि पक्षेऽग्रतः पृष्ठतो वा नता उन्नता वा भवति तत्र प्रदेशे 'समायकरणे' समतासमागमपरिज्ञाननिमित्तरेखाकरणे तुला परिपूर्णा भवति, तस्यां चैवंभूतायां तुलायां समकरणी रेखामपहाय शेषा रेखाः पञ्चविंशतिर्भवन्ति ॥ २० ॥ तथा चाह- 'सव्वे' त्यादि, तुलायां तोल्यपरिमाणसूचिकाः ‘सर्वाग्रेण' सर्वसंख्यया रेखाः पञ्चविंशतिर्भवन्ति, तासां च पञ्चविंशतिसंख्यानां रेखाणां मध्ये या रेखाः 'नन्दीपिनद्धा' फुल्लिकायुक्तास्ताश्चतस्त्रो वेदितव्याः ॥ २१ ॥ तत्र पञ्चविंशतिमेव रेखाः प्ररूपयति- 'समे' त्यादि, तुलायां प्रथमा रेखा तावत्समकरणी भवति, यत्र प्रदेशे धरणकसहिता तुला ध्रियमाणा समा भवति तत्र प्रदेशे समतापरिज्ञानार्थमेका रेखा भवतीत्यर्थः, सा पंचविंशतिसंख्यागणने न गण्यते, तस्याः समतापरिज्ञाननिमित्ततया तोल्यवस्तुपरिमाणे