________________
४१८
ज्योतिष्करण्डकम्
बहुना ? एवं भूतोऽसौ भृतो येन तानि वालाग्राहि नाग्निर्दहेत् न वायुरपहरेत्, अतीव निचितत्वादग्निपवनावपि न तत्र क्रमेते इत्यर्थः, 'नो कुहेज्ज' त्ति नो कुथ्येयुः प्रचयविशेषादेव शुषिराभावात् वायोरसम्भवाच्च नासारतां गच्छेयुः, अत एव च 'नो परिविद्धंसेज्ज' त्ति कपितयपरिशाटनमप्यङ्गी कृत्य न परिविध्वंसेरन्नित्यर्थः, अत एव च 'नो पूइत्ताए हव्वमागच्छेज्ज' त्ति न पूतित्वेन कदाचिदप्यागच्छेयुः - न कदाचिद् दुर्गन्धितां प्राप्नुयुरित्यर्थः ।
__ [६९] (सू०) तत्थणं एगमेगे वालग्गे असंखेज्जाई खंडाई किज्जइ, ते णं वालग्गा दिट्ठी उगाहणाओ असंखिज्जइभागमित्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ उ असंखेज्जगुणा । ॥ सू० १३८॥
(टि०) 'जाव तत्थ णं एगमेगे वालग्गे असंखेज्जाइ' मित्यादि पूर्वं वालाग्राणि सहज्जान्येव गृहीतानि, अत्र त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यते इति भावः, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह - 'ते णं वालग्गा दिट्ठी - ओगाहणाओ 'इत्यादि', 'तानि' खण्डीकृतवालाग्राणि प्रत्येकं दृष्टवगाहनातः किम् ? असंख्येयभागमात्राणि, द्दष्टिः - चक्षुारोत्पन्नदर्शनरूपा साऽवगाहतेपरिच्छेद-द्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु दृष्टयवगाहना प्रोच्यते, ततोऽसङ्ख्येय भागवर्तीनि प्रत्येकं वालाग्रखण्डानि मन्तव्यानि, इदमुक्तं भवति - यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति तदसङ्ख्येय भागमात्राण्येकैकशस्तानि भवन्ति ।
[७३] (सू०) तेसि णं भंते ! पुष्फफलाणं केरिसे आसाए पन्नत्ते ? गोयमा ! से जहानामाए रन्नो चाउरंत चक्कवट्टिस्स कल्लाणभोयणजाए सयसहस्सनिप्पने वन्नोववेए गंधोववेए रसोववेए आसायणिज्जे विसायणिज्जे देप्पणिज्जे दप्पणिज्ज मयणिज्जे हिणिज्जे सव्विदियगाय पल्हायणिज्जे आसाए, इत्तो इट्टत्तरागे चेव पन्नत्ते । (जंबु. प्र.सू. २२)
(टि०) 'तेसि णं मित्यादि, तेषां-पुष्पफलानां कल्पद्रुम सम्बन्धिनां कीदृशः-क आस्वादः प्रज्ञप्तो, यानि पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानीति गम्यं, भगवानाह - गौतम ! तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधीशोऽपि स्यादत आह-चतुव॑न्तेषु समुद्रत्रयहिमवत्परिच्छिनेषु चक्रेण वत्तितुं शीलमस्येति चतुरन्त चक्रवर्ती, अतः समृद्धयादौ वे (श्रीसि० ८-१-४४) त्य नेन दीर्घत्वं, अनेन वासुदेवतो व्यावृत्तिः कृता, तस्य कल्याणं - एकान्त सुखावहं भोजनजातं - भोजन विशेषः शतसहस्रनिष्पन्नं - लक्षव्ययनिष्पन्नं, वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्य भोजनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णन ? उपपेतंयुक्तं, यावदतिशायिना स्पर्शनोपयेतं यावत् गन्धेन रसेन चातिशयेनो पतेतं, आस्वादनीयं सामान्ये विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं - अग्निवृद्धिकरं दीपयति जठराग्निमिति दीपनीयं, बाहुल कात्कर्त्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साह वृद्धिहेतुत्वात्, मदनीयं-मन्मथजनकत्वात् बृंहणीयं धातूपचयकारित्वात् सर्वाणि इन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रिय गात्र प्रह्लादनीयं वैशद्यहेतुत्वा तेषां पुष्पफलानामितः चक्रवर्तिभोजनादिष्टतरकादिरेवास्वादश्चैव प्रज्ञप्तः ।