________________
परिशिष्ट-२
४१७
[६४] (सू०) अणंताणं वावहारियपरमाणुपोग्गलाणं समुदयसमिइसमागमेणं सा एगा उस्सण्हसण्हिया अट्ठ उस्सण्हसण्हिया एगा सहसण्हिया अट्ठ सहसण्हियाउ सा एगा उद्धरेणू अट्ठ उड्डरेणू सा एगा तस-वालाग्रादि रेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणुओ देवकुरुउत्तरकुरुणं मणुआणं से एगे वालग्गे, अट्ठ देवकुरुउत्तरकुरुणं मणुयाणं वालग्गा एगे हरिवासरम्मगवासाणं मणुआणं से एगे वालग्गे, अट्ट हरिवस्सरम्मगवासाणं मणुस्साणं वालग्गा हेमवयहेरण्णवयाणं मणुस्साणं से एगे वालग्गे, अट्ट हेमवयहेरण्णवयाणं मणुयाणं वालग्गा पुव्वविदेह अवर विदेहाणं मणुस्साणं से एगे वालग्गे, अट्ठ पुव्वविदेह अवरविदेहाणं मणुस्साणं वालग्गा भरहएरवयाणं मणुस्साणं से एगे वालग्गे अट्ठ भरहएरवयाणं मणुस्साणं वालग्गा सा एगा लिक्खा, अट्ठ लिक्खाओ सा एगा जूआ, अट्ठ जूआओ से एगे जवमझे, अट्ठ जवमज्झे से एगे अंगुले । एएणं अंगुलाण पमाणेणं छ अंगुलाइ पादो बारस अंगुलाई विहत्थी चउवीसं अंगुलाई रयणी अडयालीसं अंगुलाइ कुच्छी छत्रवइ अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिआ इ वा अक्खे इ वा मुसले इ वा एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउअं चत्तारि गाउआई जोअणं ॥ सू. १०१ ॥
(टी०) अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परमाणुतेति गम्यते, सा एका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्ष्णिका, उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्ण श्लक्ष्णिका उत्श्लक्ष्णलक्ष्णिका, इति शब्दः स्वरूप प्रदर्शने, वा शब्द उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यम्, एते चोत्श्लक्ष्ण श्लक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि प्रत्येकमनन्तपरमाणु निष्पन्नत्वं साम्यं न व्यभिचरन्त्यतः प्रथमं निर्विशेषितमप्युक्तं 'सा एगा उसण्हसण्हियाइ वा' इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टभागवर्तित्वात् श्लक्ष्ण श्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मा रेणुरूध्वरेणुः एतानि चोत्श्लक्ष्णश्लक्ष्णिकादीनि त्रीणि पदानि 'परमाणू तसरेणू' इत्यादि गाथायां अनुक्तन्यायुपलक्षणत्वाद् द्रष्टव्यानि त्रस्यति-पौरस्त्यादि वायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, नालाग्रभिक्षादयः प्रतीताः, देवकुरूत्तरकुरू हरिवर्ष रम्यकादिनिवासि मानवानां केशस्थूलता क्रमेण क्षेत्रशुभानुभावहानि भावनीया, शेषं निर्णीतार्थमेव ।
[६८] (सू०) से णं पल्ले एगाहियबेहियतेहियाणं उक्कोसेणं सत्तरत्तपरूढाणं सम्मढे सन्निचियभरिए वालग्गकोडीणं, तेणं वालग्गा नो अग्गी डहेज्जा नो वाऊ हरिज्जा नो कुत्थेज्जानो पलिविद्धंसिज्जा णो पूइत्ताए हव्वमागच्छेज्जा ॥ सू. १३८ ॥
(टि०) स पल्यः 'एगाहिय बेयाहिय तेयाहिय' ति षष्ठीबहुवचनलोपादेकाहिक द्वयाहिकत्रयाहिकाणामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरसि एकेनाना यावत्प्रमाणा वालाग्रकोट्य उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु या उत्तिष्ठन्ति ता द्वयाहिक्यः त्रिभिस्तु व्याहिक्यः, कथंभूत इत्याह-'संमृष्ट' आकर्णपूरितः, 'सन्निचितः' प्रचयविशेषानिबिडीकृतः । किं