________________
અધિકાર-૨૦ઃ પ્રનષ્ટ પર્વ
तदेवमुक्तमेकोनविंशतितमं प्राभृतं, साम्प्रतं विंशतितमं प्राभृतं विवक्षुराहएत्तो पणट्ठपव्वं वोच्छामि अहाणुपुव्वीए ॥ ३६० ॥
'इतः' अमावास्यापौर्णमासीप्रतिपादकादेकोनविंशतितमात्प्राभृतादनन्तरं प्रनष्टपर्वप्रतिपादकं विंशतितमं 'यथानुपूर्व्या' क्रमेण वक्ष्यामि ॥ ३६० ॥ प्रतिज्ञातमेव निर्वाहयति
जइ कोई पुच्छेज्जा सूरे उद्रुितयंमि अभिइस्स । एक्ककला पडिवण्णा किं पव्वं का तिही होइ ? ॥ ३६१ ॥ इच्छानक्खत्ताओ अभिजिमुपादाय संखिवे तु कला ।
इच्छाकलूणकाले कयंमि इणमो भवे करणं ॥ ३६२ ॥ कोऽपि शिष्यः पृच्छति-यदि सूर्ये उत्तिष्ठति-उदयमानेऽभिजितो नक्षत्रस्यैका परिपूर्णा कला सप्तषष्टिभागरूपा चन्द्रमसा प्रतिपन्ना-भुक्ता भवति तदा तस्मिन् दिवसे किं पर्व वर्त्तते? का वा तिथिः ? ॥ एवं शिष्येण प्रश्ने कृते सति सूरिः शेषनक्षत्रदर्शनादिभिर्विवक्षितं नष्टं पर्व जानीयादिति तद्विषयं करणमाह- ईप्सितान्नक्षत्रात्पूर्वमभिजितमुपादाय
१. एतद्गाथानन्तरं म.वि. संस्करणंऽधिका गाथा वर्तते -A'जध अभिजिस्स कलाएवं (? कलेवं) अवसेसाणं पि नामिच्छेज्जा । नट्टम्मि कोति पव्व सुण करणं एत्थ वोच्छामि ॥३८६ ॥' तथैतस्या अपि गाथायाः प्राग् जे० खं० आदर्शयोरेका गाथेमाऽपि दृश्यते - Aजति कोयी पुच्छेज्जा सूरे उ टुंतकम्मि अभियिस्स । अद्धकला पडिपुन्ना किं पव्वं ? को तिही ताहे ? ॥ इति ॥२. इच्छा नक्खत्ताणं अभिजिमुपादाण संखिवे कालं । इच्छणगम्मि काले कायम्मि-जे. खं०1Aछा.) यथाभिजितः कलेवमवशेषानामपि ज्ञातुमिच्छेत् । नष्ट कति पर्वे शृणु करणमत्र वक्ष्यामि ॥३८६ ॥(छा.) यदि कोऽपि पृच्छेत् सूर्ये उदिते कस्मिन्नभिजितः । अर्द्ध कला प्रतिपूर्णा किं पर्व ? का तिथि स्तदा?॥