________________
ज्योतिष्करण्डकम्
एकचत्वारिंशत्तमस्याभिवृद्धिः - अभिवृद्धिदेवा उत्तरभद्रपदा ४१ द्वाचत्वारिंशत्तमस्यापि उत्तरभद्रपदा ४२ त्रिचत्वारिंशत्तमस्याश्वः - अश्वदेवाऽश्विनी ४३ चतुश्चत्वारिंशत्तमस्य यमदेवा भरणी ४४ पंचचत्वारिंशत्तमस्य [ बहुला ] कृत्तिका ४५ षट्चत्वारिंशत्तमस्य रोहिणी ४६ सप्तचत्वारिंशत्तमस्य सोमः - सोमदेवोपलक्षिता मृगशिरः ४७ अदितिद्विकमिति अष्टाचत्वारिंशत्तमस्य अदितिः - अदितिदेवतोपलक्षितं पुनर्वसुनक्षत्रं ४८ एकोनचत्वारिंशत्तमस्यापि पुनर्वसुनक्षत्रं ४९ पंचाशत्तमस्य पुष्यः ५० एकपंचाशत्तमस्य पिता- पितृदेवता मघा ५१ द्विपंचाशत्तमस्य भगो - भगदेवाः पूर्वफाल्गुन्यः ५२ त्रिपंचाशत्तमस्य अर्यमा अर्यमदेवतो - पलक्षिता उत्तरफाल्गुन्यः ५३ चतुष्पंचाशत्तमस्य हस्तः ५४ अत ऊर्ध्वं चित्रादीन्यभिजित्पर्यन्तानि ज्येष्ठावर्जान्यष्टौ नक्षत्राणि क्रमेण वक्तव्यानि तद्यथा- पंचपंचाशत्तमस्य चित्रा ५५ षट्पंचाशत्तमस्य स्वाति: ५६ सप्तपञ्चाशत्तमस्य विशाखा ५७ अष्टापंचाशत्तमस्यानुराधा ५८ एकोनषष्टितमस्य मूलः ५९ षष्टितमस्य पूर्वाषाढा ६० एकषष्टितमस्योत्तराषाढा ६१ द्वाषष्टितमस्याभिजिदिति ६२ । एतानि नक्षत्राणि युगस्य पूर्वार्द्ध द्वाषष्टिसंख्येषु पर्वसु यथाक्रममुक्तानि, एवं करणवशेन युगस्योत्तरार्द्धेऽपि द्वाषष्टिसंख्येषु पर्वसु ज्ञातव्यानि ॥ अथवा ध्रुवराशेरन्यथा निष्पत्तिः - नव शतानि पंचदशोत्तराणि स्थाप्यन्ते ९१५, तेषां द्वाषष्ट्या भागो ह्रियते, लब्धाश्चतुर्दश दिवसाः, शेषा तिष्ठति सप्तचत्वारिंशत्, सा मुहूर्त्तानयनाय त्रिंशता गुण्यन्ते, जातानि चतुर्दश शतानि दशोत्तराणि १४१०, तेषां द्वाषष्टया भागे हृते लब्धा द्वाविंशति मुहूर्ता:, शेषा तिष्ठति षट्चत्वारिंशत् ४६, ततच्छेद्यच्छेदकराश्योरर्द्धेनापवर्त्तना, जातास्त्रयोविंशतिरेकत्रिंशद्भागाः ॥ अथवाऽन्यथोत्पत्तिः चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशद्दिवसस्य द्वाषष्टिभागास्तस्यार्द्धं चतुर्दश दिनानि पंचदशमुहूर्ता:, ये च द्वात्रिंशद्वाषष्टिभागास्ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जातानि - नव शतानि षष्ट्यधिकानि ९६०, तेषां द्वाषष्ट्या भागे हृते लब्धाः पंचदश मुहूर्त्ताः शेषा तिष्ठति त्रिंशत्, पंचदशानामर्द्धे सप्त एकत्रिंशच्च द्वाषष्टिभागाः, मुहूर्त्ता मुहूर्त्तराशौ प्रक्षिप्यन्ते, जाता द्वाविंशतिः, त्रिंशतश्चार्द्धे पंचदश, ततोऽमी पंचदश अनन्तरोक्तश्चैकत्रिंशच्च द्वाषष्टिभागाः, एकत्र मील्यन्ते, जाता षट्चत्वारिंशत्, ततः छेद्यच्छेदकराश्योरर्द्धेनापवर्त्तना, लब्धा त्रयोविंशतिरेकत्रिंशद्भागाः ॥ यदिवेत्थं ध्रुवराशेरुत्पत्तिः– यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टादश शतानि त्रिंशदधिकानि दिवसानां लभ्यन्ते तत एकेन पर्वणा किं लभामहे ? राशित्रयस्थापना १२४ - १८३० - १ अत्रान्त्येन राशिना मध्यराशेर्गुणने जातानि तान्येवाष्टादश शतानि त्रिंशदधिकानि १८३०, तेषामाद्येन राशिना
३८८