________________
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
३५५
સમાપ્ત થાય છે. આમ, યુગમાં થનારી સર્વ અમાવસ્યાઓમાં ચંદ્રનક્ષત્ર યોગની भावना 5२वी. ॥३२४॥ હવે પૌર્ણમાસી વિષયક ચંદ્રનક્ષત્રયોગ જાણવા માટે કરણ બતાવે છે –
इच्छापुण्णिमगुणिओ अवहारो सोत्थ होइ कायव्वो । तं चेव य सोहणगं अभिईआई तु कायव्वं ॥३२५॥ सुद्धमि य सोहणगे जं सेसं तं हवेज्ज नक्खत्तं ।
तत्थ य करेइ उलुवइ पडिपुण्णो पुण्णिमं विमलं ॥३२६॥ यः पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि-पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविधौ ईप्सितपौर्णमासीगुगिणितः यां पौर्णमासी ज्ञातुमिच्छसि तत्संख्यया गुणितः कर्तव्यः, गुणिते च सति 'तदेव' पूर्वोक्तं शोधनकं कर्त्तव्यं, केवलमभिजिदादिकं, नतु पुनर्वसुप्रभृतिकं, शुद्धे च शोधनके यच्छेषमवतिष्ठते तद् भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिश्च नक्षत्रे करोति 'उडुपतिः' चन्द्रमाः परिपूर्णः पौर्णमासी विमलामिति, करणगाथाद्वयाक्षरार्थः । भावना त्वियं-कोऽपि पृच्छति युगस्यादौ प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपयाति ? इति, तत्र षट्षष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिध्रियेत, स प्रथमायां पौर्णमास्यां किल पृष्टमित्येकेन गुण्यते, एकेन च गुणितं तदेव भवति, ततस्तस्मादभिजितो नव मुहूर्ताः एकस्य च मुहूर्तस्य चतुर्विंशतिषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयं, तत्र षट्षष्टेर्नव मुहूर्ताः शुद्धाः, स्थिता पश्चात्सप्तपञ्चाशत्, तेभ्य एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः, ते च द्वाषष्टिरपि भागा द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टिषष्टिभागाः, तेभ्यश्चतुर्विंशतिः शुद्धाः, स्थिता पश्चात्रिचत्वारिंशत्, तेभ्य एकं रूपमादाय सप्तषष्टिभागीक्रियते, ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते, जाता अष्टषष्टिः, सप्तषष्टिभागाः, तेभ्यः षट्षष्टिः, शुद्धा, स्थितौ द्वौ पश्चात्सप्तषष्टिभागौ, ततः त्रिंशता मुहूर्तः श्रवणः शुद्धः, स्थिताः पश्चान्मुहूर्ताः षड्विंशतिः, तत इदमागतंधनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनविंशतिसंख्येषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पंचषष्टिसंख्येषु सप्तषष्टिमागेषु शेषेषु प्रथमा पौर्णमासी समाप्तिमिति, तथा