________________
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
३५१ शताभ्यां पंच(द्वि)नवत्यधिकाभ्यां पुष्यादीनि विशाखापर्यन्तानि शुद्धानि, स्थिताः पश्चादष्टात्रिंशन्मुहूर्ताः ३८, तेभ्यस्त्रिंशताऽनुराधा शुद्धा, स्थिताः पश्चादष्टौ, तेभ्य एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतस्ते द्वाषष्टिरपि भागा द्वाषष्टिभागराशौ पंचविंशतिलक्षणे प्रक्षिप्यन्ते, जाताः सप्ताशीतिषिष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः, स्थिताः पश्चादेकचत्वारिंशत् ४१, आगतं ज्येष्ठानक्षत्रस्य सप्त मुहूर्तान् एकस्य च मुहूर्तस्यैकचत्वारिंशतं द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्य पंच सप्तषष्टिभागान् भुक्त्वा पंचमी अमावास्या समाप्तिमुपगच्छतीति । तथा दशम्याममावास्यायां जिज्ञासितायां स एव प्राक्तनोऽवधार्यराशिर्दशभिर्गुण्यते, जातानि मुहूर्तानां षट्शतानि षष्ट्यधिकानि ६६० पंचाशद् द्वाषष्टिभागाः ५०६२ दश च द्वाषष्टिसप्तषष्टिभागा १०।६७ अत्र चतुभिर्मुहूर्त्तशतै‘चत्वारिंशदधिकैः पुष्यादीन्युत्तराषाढान्तानि नक्षत्राणि शुद्धानि, स्थिते पश्चाद् द्वे शते अष्टादशोत्तरे २१८, पंचाशतश्च द्वाषष्टिभागेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चाच्चत्वारो द्वाषष्टिभागाः, इत ऊर्ध्व द्वितीयं शोधनकं शोध्यते-द्वाभ्यां शताभ्यामष्टादशोत्तराभ्यामेकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तराभाद्रपदापर्यन्तानि शुद्धानि, शेषा तिष्ठत्येकोनषष्टिः ५९, इतस्त्रिशता रेवती शुद्धा, स्थिता पश्चादेकोनत्रिंशत्, चतुर्थ्यश्च द्वाषष्टिभागेभ्योऽभिजित् शोधनकं न शुद्ध्यति तत एकोनत्रिंशत एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीक्रियते, ते च द्वाषष्टिरपि भागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाताः षट्षष्टिटषष्टिभागाः, तेभ्यश्चतुर्विंशतिषष्टिभागाः शुद्धाः, स्थिताः पश्चाद् द्वाचत्वारिंशत् ४२, तेभ्य एकं रूपं गृहीत्वा सप्तषष्टिभागीक्रियते, ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागराशौ दशकरूपे प्रक्षिप्यन्ते, जाता सप्तसप्ततिः, तेभ्यः षट्षष्टि शुद्धा, स्थिताः पश्चादेकादश, आगतमश्विनीनक्षत्रस्याष्टाविंशति मुहूर्तान् एकस्य च मुहूर्तस्यैकचत्वारिंशतं द्वाषष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकादश सप्तषष्टिभागान् भुक्त्वा दशमी अमावास्या समाप्तिमुपसर्पतीति, एवं सर्वास्वपि युगमध्यभाविनीष्वमावास्यासु चन्द्रनक्षत्रयोगः परिभावनीयः ॥३२४॥ सम्प्रति पौर्णमासीविषयं चन्द्रयोगपरिज्ञानार्थं करणमाह
ગાથાર્થઃ ૨૨ મુહૂર્તા પુનર્વસુના પરિપૂર્ણ શોધનીય થાય છે, ૧૭૨ ફાલ્યુનીના વિશાખાના ર૯૨, ઉત્તરાષાઢાના ૪૪૨ શોધનીયા થાય છે. ૩૧૭-૩૧૮ આ પુનર્વસુ નક્ષત્રના દર ભાગ સહિત શોધનક જાણવું. એના પછી અભિજિત આદિ બીજું શોધનક કહીશ ૩૧લી અભિજિતના ૯ 3 : ભાગ હોય છે li૩૨ના ૧૫૯ પ્રૌઇપ્રદા