SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ज्योतिष्करण्डकम् " ૫ ૧ ૬૭ द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्या समाप्तिमुपगच्छतीति, तथा चोक्तं सूर्यप्रज्ञप्तौ - [सूत्र ६८ ] " ती एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएइ ?, ताअस्सेसाहिं अस्सेसाणं एको मुहूत्तो चत्तालीसं च बावट्टिभागा मुहूत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता छावट्ठी चुण्णियाभागा सेसा' इति । तथा कोऽप्यपरः पृच्छति - युगस्यादौ द्वितीयाऽमावास्या केन नक्षत्रेण समेता समाप्तिमियत्र्त्ति, तत्रावधार्यराशिरुक्तस्वरूपो ६६, र द्वाभ्यां गुण्यते, जातं द्वात्रिंशदधिकं शतं १३२, एकस्य च मुहूर्त्तस्य द्वाषष्टिभागा दश १०, एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य द्वौ भागौ २, तत्र प्रथमतः पुनर्वसुशोधनकं शोध्यते, द्वात्रिंशदधिक मुहूर्त्तशतात् द्वाविंशतिमुहूर्ताः शुद्धाः स्थितं पश्चाद्दशोत्तरं शतं, तेभ्योऽप्येको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः, ते च द्वाषष्टिभागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिर्द्वाषष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षड्विंशतिः, नवोत्तरमुहूर्त्तशताच्च त्रिंशन्मुहूर्तै: पुष्यः शुद्धः, स्थिता पश्चादेकोनाशीतिः, ततोऽपि पंचदशभिर्मुहूर्तेर श्लेषा शुद्धा, स्थिताः पश्चाच्चतुष्षष्टिः, ततोऽपि त्रिंशता मघा शुद्धा, स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चाच्चत्वारः, उत्तराफाल्गुनीनक्षत्रं च द्व्यर्द्धक्षेत्रमिति पंचचत्वारिंशन्मुहूर्त्तप्रमाणं, तत इदमागतम् - उत्तराफाल्गुनीनक्षत्रस्य चत्वारिंशति मुहूर्त्तेषु पंचत्रिंशति च मुहूर्त्तस्य द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य पंचषष्टौ भागेषु शेषेषु द्वितीयाऽमावास्या समाप्तिं याति तथो चोक्तं सूर्यप्रज्ञप्तावेव - [ सूत्र ६८ ] " तो एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोइए ?, ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता पणट्ठी चुण्णियाभागा सेसा " इति । पंचम्याममावास्यायां जिज्ञासितायां स एव प्रागुक्तोऽवधार्यराशिः पंचभिर्गुण्यते, जातानि त्रीणि शतानि त्रिंशदधिकानि मुहूर्त्तानां पंचविंशतिर्द्वाषष्टिभागाः पंच च द्वाषष्टिसप्तषष्टिभागाः, तत्र द्वाभ्यां ३५० १. एतेषां पंचानां संवत्सराणां प्रथमाममावस्यां चंद्रः केन नक्षत्रेण युज्यते ? अश्लेषाभिः, अश्लेषानामैको मुहूर्तश्चत्वारिंशं च्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा षट्षष्टिश्रूणितभागाः शेषाः ' । २. 'एतेषां पंचानां संवत्सराणां द्वितीयाममावस्यां चन्द्रः केन नक्षत्रेण युज्यते ? उत्तराभिः फाल्गुनिभिः, उत्तराणां फाल्गुनीनां चत्वारिंशन्मुहूर्त्ताः पञ्चत्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा पञ्चषष्टिचूर्णितभागाः शेषाः' ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy