________________
मङ्गलाचरण
अवमासपुण्णामासी१९ पण?पव्वं२० च पोरिसिं२१ वावि।
ववहारनयमएणं तं पुण सुण मे अणनमणो ॥ ५ ॥ इह सूर्यप्रज्ञप्तिसत्का अधिकारा एकविंशतिःउपप्राभृतविनिबद्धाः, तत्र प्रथमेऽधिकारे कालस्य-समयादेर्घटिकापर्यन्तस्य प्रमाणं वक्ष्ये, द्वितीये मानं-प्रमाणं संवत्सराणां, तृतीयेऽधिकमासस्य निष्पत्ति, तदनन्तरं चाल्पवक्तव्यत्वाद् गाथोक्तं क्रममुल्लंघ्य चतुर्थे पर्वतिथिसमाप्तिं वक्ष्ये, पञ्चमेऽवमरात्रं, गाथायां चान्यथानिर्देशः छन्दोवशात्, ततः षष्ठे-नक्षत्राणां संस्थानादिपरिमाणं वक्ष्यामि, सप्तमे चन्द्रसूर्यपरिमाणं अष्टमे चन्द्रसूर्य- नक्षत्राणां गतिं, नवमे नक्षत्रयोगं, दशमे जम्बूद्वीपे चन्द्रसूर्याणां मण्डलविभागम्, एकादशेऽयनं, द्वादशे आवृत्ति, त्रयोदशे चन्द्रसूर्यनक्षत्राणां मण्डले मण्डले मुहूर्तगतिपरिमाणं, चतुर्दशे ऋतुपरिमाणं, पंचदशे विषुवाणि, षोडशे व्यतिपातान्, सप्तदशे तापक्षेत्रम्, अष्टादशे दिवसानां वृद्ध्यपवृद्धी, एकोनविंशतितमेऽमावास्यापौर्णमासीवक्तव्यतां, विंशतितमे प्रनष्टं पर्व, एकविंशतितमे पौरुषीं, एतांश्चैकविंशतिसंख्यानप्यर्थाधिकारान् वक्ष्ये व्यवहारनयमतेन, न निश्चयनयमतेन निश्चयनयमतेन हि कलाकलांशप्रतिकलांशगणनया परमार्थतः परमश्रुतविद एव बुध्यन्ते, न शेषाः, न च तथा कथ्यमानं श्रोतृणां अञ्जसाऽवगमपथमृच्छति, ततो व्यवहारनयमतेन योजनगव्यूतकतिपयकलाकलांशप्रविभागरूपेण वक्ष्ये, तच्च तथा मे कथयतो भवानवहितमनस्को भूत्वा श्रृणु ॥ २-५॥
ગાથાર્થ :- વ્યવહારનયમતથી કાળવિભાગના ૨૧ અધિકારો અનન્યમનસ્ક થઈને સાંભળ, કાળપ્રમાણ ૧, સંવત્સરોનું પ્રમાણ ૨, અધિકમાસની નિષ્પત્તિ ૩, અવમરાત્ર ૪, પર્વતિથિસમાપ્તિ ૫, નક્ષત્રપરિમાણ ૬, ચંદ્રસૂર્યનું પરિમાણ ૭, નક્ષત્ર-ચંદ્ર સૂર્યની ગતિ ૮, નક્ષત્ર યોગ ૯, મંડલવિભાગ ૧૦, અયન ૧૧, આવૃત્તિ ૧૨, મંડલમાં મુહૂર્ત ગતિ ૧૩, ઋતુ ૧૪, વિષુવો ૧૫, વ્યતિપાતો ૧૬, તાપક્ષેત્ર ૧૭, દિવસોની વૃદ્ધિनि. १८, अमावस्या-पू[भासी १८, प्रनष्ट पर्व २०, पौरुषी २१. ॥ २-५ ॥
ટીકાર્થ :- અહીં સૂર્યપ્રજ્ઞપ્તિ સંબંધી ૨૧ અધિકારો ઉપકાભૂતવિનિબદ્ધ છે. ત્યાં, પ્રથમ અધિકારમાં સમયાદિ ઘટિકાપર્યન્ત કાળનું પ્રમાણ કહીશું. બીજામાં સંવત્સરોનું
१. अत्र म. वि. संस्करणे शिवनन्दि वाचक टिप्पणे । 'एवमेते तेवीसं पाहुडे वण्णयिस्सामो जधक्कम । तत्र 'पव्वसमत्ति ५ तिहिसमति ६च' एवं 'अवमासी २० पुण्णमासी २१' इति द्वौ द्वौ अधिकारौ भिन्नौ भणितौ स्तः।