________________
અધિકાર-૧૯ઃ અમાવસ્યા-પૂર્ણિમા-ચન્દ્રનક્ષત્રયોગ
तदेवमुक्तमष्टादशं प्राभृतं, साम्प्रतममावास्यापूर्णमासीचन्द्रनक्षत्रयोगप्रतिपादकमेकोनविंशतितमं प्राभृतं वक्तव्यं, तत्र युगे द्वाषष्टिरमावास्या द्वाषष्टिः पौर्णमास्यः, तत्र कस्मिन्नक्षत्रे काऽमावस्या ? इत्यमावस्याविषयं करणमाह
नाउमिह अमावासं जइ इच्छसि कम्मि होइ रिक्खंमि ?।
अवहारं ठावेज्जा तत्तियरूवेहिं संगुणए ॥३१४॥ याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाप्ता भवति ? इति, तावद्रूपैः, यावत्योऽमावास्या अतिक्रान्तास्तावत्या संख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यते-प्रथमतया स्थाप्यते इत्यवधार्यो-ध्रुवराशिस्तमवधार्यराशि तस्यां पट्टिकादौ स्थापयित्वा संगुणयेत् ॥ ३१४ ॥ अथ किंप्रमाणोऽसाववधार्यराशिः ? इति तत्प्रमाणनिरूपणार्थमाह
छावट्ठी य मुहुत्ता बिसट्ठिभागा य पंच पडिपुण्णा ।
बावट्ठिभागसत्तट्ठिमो य एक्को भवइ भागो ॥३१५॥ षट्षष्टिर्मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागाः एकस्य द्वाषष्टिभागस्यैकः सप्तषष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्योत्पत्तिः ? इति चेद्, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना १२४-५-२, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चकलक्षणो गुण्यते, जाता दश, तेषां चतुर्विशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना क्रियते, जात उपरितनश्छेद्यो राशिः पञ्चकरूपोऽधस्तनो द्वाषष्टिरूपो, लब्धाः पञ्च द्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थ