________________
३२८
ज्योतिष्करण्डकम्
सर्वबाह्ये मण्डले वर्तमानस्य 'रवेः' सूर्यस्य मन्दरपर्वतसमीपे तापक्षेत्रं मन्दरपरिरयराशौ 'द्विगुणे' द्विगुणीकृते दशभिर्भाजिते यद् भवति भागलब्धं तावत्प्रमाणं 'तापक्षेत्रं' तापक्षेत्रिवष्कम्भः तत्र मन्दरपरिरयराशिरेकत्रिंशद् योजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि ३१६२३, एष राशिर्द्विगुण्यते, जातानि त्रिषष्टिः सहस्राणि द्वे शते षट्चत्वारिंशदधिके ६३२४६, तेषां दशभिर्भागे हृते लब्धानि षट् सहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि ६३२४ षट् च दशभागा योजनस्य ६१०, एतावान् सर्वबाह्यमण्डले वर्तमाने सूर्ये मन्दरपर्वतसमीपे तापक्षेत्रस्य विष्कम्भः, तदानीं च लवणदिशि जम्बूद्वीपपर्यन्ते तापक्षेत्रविष्कम्भस्त्रिपष्टियोजनसहस्राणि द्वे शते पञ्चचत्वारिंशदधिके ६३२४५ षट् च दशभागा योजनस्य ६१० कथमेतस्योत्पत्तिः ? इति चेद्, उच्यते, इह जम्बूद्वीपपरिधिः प्रागुक्तप्रमाणः ३१६२२८ द्वाभ्यां गुण्यते, गुणयित्वा च दशभिर्भागो हियते, ततो यथोक्तं तापक्षेत्रविष्कम्भपरिमाणं भवति, उक्तं च- [सू. प्र. सू. २५] "ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंक-मित्ता चारं चरइ तया णं किंसंठिया तावखित्तसंठिती आहियत्ति वएज्जा ? ता उड्डीमुहकलंबुयापुप्फसंठाणसंठिया तावखित्तसंठिई जाव बाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेण छज्जोयणसहस्साइं तिण्णि य चउवीसे जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहियत्ति वएज्जा, तीसे णं परिक्खेवविसेसे कओ आहियत्ति वएज्जा ? ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहि गुणेत्ता सेसं तहेव, तीसे णं सव्वबाहिरिया लवणसमुइंतेणं तेवढेि जोयणसहस्साई दोण्णि य पणयाले जोयणसए छच्च दसभागे जोयणस्स य परिक्खेवेणं आहियत्ति वएज्जा, तीसे णं परिक्खेवविसेसे कओ आहियत्ति वएज्जा ? ता जे णं जंबूदीवस्स दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता दसहिं छेत्ता दसहि भागे हीरमाणे एस णं परिक्खेवविसेसे आहियत्ति वएज्जा" ॥३००॥ तदेवमुक्तं सर्वाभ्यन्तरे सर्वबाह्ये च
१. “यदा सूर्यः सर्वबाह्यं मण्डलंमुपसङ्क्रम्य चारं चरति तदा किं संस्थाना तापक्षेत्रसंस्थितिराख्यातेति वदेत् ? उर्वीमुखकलम्बुका संस्थानसंस्थिता तापक्षेत्रसंस्थिति यावद्वाह्या चैव बाहा, तस्याः सर्वाभ्यन्तरिका बाहा मन्दरपर्वतान्ते षड्योजनसहस्त्राणि त्रिणी च चतुर्विशतानि योजन शतानि षड्च दशभागा योजनस्य परिक्षेपेणाख्याता इति वदेत् , तस्याः परिक्षेपविशेषः कृत आख्यात इति वदेत् ? यो मन्दरस्य पर्वतस्य परिक्षेप स्तं परिक्षेपं द्वाभ्यां गुणयित्वा शेषं तथैव, तस्याः सर्वबाह्यां लवण समुद्रान्ते त्रयःषष्टि र्योजन सहस्राणि द्वे च पञ्चचत्वारिंशद् योजन शते षड्च दशभागा योजनस्य च परिक्षेपेणाख्याता इति वदेत्, तस्याः परिक्षेपविशेषः कृत आख्यात इति वदेत् ? यो जम्बूद्वीपस्य द्वीपस्य परिक्षेपस्तं परिक्षेपं द्वाभ्यां गुणयित्वा दशभिश्छित्वा दशभि र्भागे हीयमाणे एष परिक्षेपविशेष आख्यात इति वदेत् ।"