SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३२६ ज्योतिष्करण्डकम् तदानीं च लवणदिशि जम्बूद्वीपपर्यन्ते तापक्षेत्रविष्कम्भश्चतुर्नवतियोजनसहस्राण्यष्टौ शतान्यष्टषष्ट्यधिकानि चत्वारि दशभागा योजनस्य ९४८६८ ४ एतस्य चोत्पत्तिर्जम्बूद्वीपस्य परिधौ त्रिगुणिते दशभिर्भाजिते द्रष्टव्या, तथाहि-जम्बूद्वीपस्य परिधिस्त्रीणि शतसहस्राणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके ३१६२२७ त्रीणि गव्यूतान्यष्टाविंशत्यधिकं धनुःशतं त्रयोदशाङ्गुलानि एकम गुलम्, एतावता च योजनमेकं किल किञ्चिन्न्यूनमिति व्यवहारतः परिपूर्ण विवक्ष्यते, ततो द्वे शते अष्टाविंशत्यधिके वेदितव्ये ३१६२२८, एतत् त्रिगुणितं क्रियते, जातानि नव लक्षाणि अष्टचत्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि ९४८६८४, एतेषां दशभिर्भागे हृते लब्धानि चतुर्नवतियोजनसहस्राण्यष्टौ शतान्यष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्य, तथा चोक्तं सूर्यप्रज्ञप्तौ- [सूत्र २५] 'जया णं सूरिए सव्वब्भंतरं मण्डलं उवसंकमित्ता चारं चरइ तया णं उद्धीमुहकलंबुआपुप्फसंठिआ तावखित्तसंठिती आहियत्ति वएज्जा, अंतो संकुडा बाहिं वित्थडा, अंतो वट्टा बाहिं पिहुला, अंतो अंकमुहसंठिया, बाहिं सत्थिमुहसंठिया, उभयोपासेणं तीसे दुवे बाहाओ अवट्ठियाओ भवंति, तंजहा-पणयालीसं पणयालीसं जोयणसहस्साई आयामेणं, दुवेणं तीसे बाहाओ अणवट्ठियाओ भवंति, तंजहा- सव्वब्भंतरिया चेव बाहा, सव्वबाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं नवजोयणसहस्सा चत्तारि य छलसीए जोयणसए नव य दसभागे जोयणस्स परिक्खेवेणं अहियत्ति वएज्जा, तीसे णं परिक्खेवविसेसे कत्तो अहिय त्ति वएज्जा ? ता जे णं मंन्दरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागेहिं हीरमाणे एस णं परिक्खेवविसेसे आहियत्ति वएज्जा, तीसे णं सव्वबाहिरिया बाहा लवणसमुदंतेणं चउणउई १. यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा उद्धर्वीमुखकलम्बुकापुष्पसंस्थिता ताप क्षेत्रसंस्थितिराख्यातेति- अन्तः संकीर्णा बहि विस्तृता, अंतो वृत्ता बहिः पृथुला, अंतोऽकमुखसंस्थिता, बहिः शस्त्रीमुखसंस्थिता, उभय पार्श्वन तस्या द्वे बाहेऽवस्थिते भवतः, तद्यथा- पंचचत्वारिंशत् पंच चत्वारिंशत् योजनसहस्राण्यायामेन, द्वे तस्याः बाहे अनवस्थिते भवतः, तद्यथा- सर्वाभ्यन्तरिका चैव बाहा, सर्व बाह्या चैव बाहा, तस्यां सर्वाभ्यन्तरिका बाहा मन्दरपर्वतान्तेन नवयोजनसहस्राणि चत्वारि च षडशीति योजनशतानि नव च दशभागा योजनस्य परिक्षेपेण त्रिभिर्गुणिता दशभिश्छिन्ना दशभि आँगै ह्रीयमाणा एष परिक्षेपविशेष आख्यात इति वदेत्, तस्यां सर्वबाह्या बाहा लवणसमुद्रान्तेन चतुर्नवति योजनसहस्राणि, अष्टौ चाष्टषष्टयोजनशतानि चत्वारि च दशभागा योजनस्य परिक्षेपेणाख्याता इति वदेत् ? यो जम्बूद्वीपस्य परिक्षेपस्तं परिक्षेपं त्रिभि गुणयित्वा दश भिश्छित्वा दशभि आँगै हीयमाण एष परिक्षेपविशेषः आख्यात इति वदेत् ।"
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy