________________
३२३
अधिकार सत्तरमो - तापक्षेत्र परिमाण
मेरुस्स मज्झयारे जाव य लवणस्स रुंदछब्भागो ।
तावायामो एसो सगडुद्धीसंठिओ नियमा ॥ २९७ ॥ 'मेरोः' मंदरस्य 'मध्यकारे' मध्यभागे यः स देशस्तस्मादारभ्य यावल्लवणस्यलवणसमुद्रस्य रुंदताया-विस्तीर्णत्वस्य षड्भागः, एतावत्प्रमाणत्स्तापक्षेत्रस्यायामः, एष च तापो नियमात् 'शकटोद्धिसंस्थितः' शकटोद्धिसंस्थानः, अंतः सङ्कुचितो बहिर्विस्तृत इति भावः, इयमत्र भावना-जंबूद्वीपस्याः पञ्चाशत् योजनसहस्राणि लवणस्य षष्ठे भागे च त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि एकश्च त्रिभागो योजनस्य, एतच्चैकत्र मिलितं सत् तत् सञ्जातमेवं प्रमाणं-त्र्यशीतिर्योजनसहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि ८३३३३ एकस्य योजनस्य त्रिभागः , एतावत्प्रमाणः सर्वाभ्यंतरे मण्डले वर्तमाने सूर्ये तापक्षेत्रस्यायामः, इह यदि मंदरेण सूर्यस्य प्रकाशो न प्रतिस्खल्यते ततः पंचाशत् योजनसहस्राणि जम्बूद्वीपार्द्धगतानि सूर्यः प्रकाशयतीति परिभाव्य मूलटीकाकृता त्र्यशीतियोजनसहस्राणीत्युक्तमतोऽस्माभिरपि तथैवोक्तं, यावता पुनर्जम्बूद्वीपाढे मन्दरादर्वाक् पञ्चचत्वारिंशदेव योजनसहस्राणि सूर्यस्य प्रकाश्यानि, तत एतावदेव तापक्षेत्रस्यायामपरिमाणमष्टासप्ततियोजनसहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि एकश्च योजनस्य त्रिभागः ७८३३३, तथा चोक्तं सूर्यप्रज्ञप्तौ- [सूत्र २५] "तीसे णं तावखेत्तेणं केवइयं आयामेणं आहियत्ति वएज्जा ? ता अट्ठतरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणतिभागे च आयामेणं आहएत्ति वएज्जा" इति, स चैतावत्प्रमाणस्तापक्षेत्रस्यायामः सदैवावस्थितः, केवलं निष्क्रामति सूर्ये लवणाभिमुखमभिसर्पति परि(अप)वर्द्धते प्रविशति सूर्ये मेरुमभिमुखमभिसर्पति वर्धते ॥ २९७ ॥ तत्र प्रविशति सूर्ये यावत्प्रमाणः परिवर्द्धते तापक्षेत्रस्यायामो यावत्प्रमाणश्च निष्क्रामति सूर्ये हानिमुपगच्छति तावत्प्रमाणं प्रतिपिपादियिषुराह
ગાથાર્થ ઃ મેરુના મધ્યભાગથી માંડીને લવણસમુદ્રની તરફ વિસ્તીર્ણ ૬ ભાગ सुधीनो माता५ मायाम शटोद्धि संस्थाननो नियम होय छे. ॥ २८७ ॥
१. "तस्मिन् तापक्षेत्रे कियन्तमायामेनाख्यातमिति वदेत ? अष्टसप्तति योजन सहस्त्राणि त्रीणि च प्रयस्त्रिंशद् योजनशतानि योजनत्रिभागेन चायामेनाख्यातमितिवदेत्"