________________
अधिकार सोळमो - व्यतिपात
३११
पंचत्रिंशदधिकानि १४३३५, छेदराशिना च द्वादशप्रमाणेन सप्तषष्टिगुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि, अभिजितोऽप्येकविंशतिः सप्तषष्टिभागा द्वादशभिर्गुणिता जाता द्वे शते द्विपंचाशदधिके २५२, ते प्राक्तनराशेः शोध्यन्ते, स्थितानि पश्चाच्चतुर्दश सहस्राणि त्र्यशीत्यधिकानि १४०८३, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागहरणं, लब्धाः सप्तदश १७, शेषं तिष्ठति चत्वारि शतानि पंचदशाधिकानि ४१५, एतानि च मुहूर्तानयनाय त्रिंशता गुणयितव्यानि, त्रिंशतश्च षट्केनापर्वत्तनायां जाताः पंच, छेदराशेरपि षट्केनापवर्त्तने जातं चतुस्त्रिंशदधिकं शतं, तत्र चतुर्णां शतानां पंचदशोत्तराणां पंचभिर्गुणने जातानि विंशतिशतानि पंचसप्तत्यधिकानि २०७५, तेषां चतुस्त्रिंशदधिकशतेन भागो हियते, लब्धाः पंचदश मुहूर्ताः शेषाः तिष्ठन्ति चतुस्त्रिंशदधिकशतभागाः पंचषष्टिः, तत्र ये पूर्वलब्धाः सप्तदश तेभ्यस्त्रयोदशभिः श्रवणादीनि पुनर्वसुपर्यन्तानि शुद्धानि, शेषास्तिष्ठन्ति चत्वारि, तैश्च पुष्यादीनि पूर्वफाल्गुनीपर्यंतानि चत्वारि नक्षत्राणि शुद्धानि, परमश्लेषानक्षत्रमर्द्धक्षेत्रमिति तत् पंचदशभिर्मुहूर्तेः शुद्ध्यतीति शेषास्तिष्ठन्ति पंचदश, ते मुहूर्तराशौ प्रक्षिप्यन्ते, जातास्त्रिंशन्मुहूर्त्ताः, आगतमुत्तरफाल्गुनीनक्षत्रस्य त्रिंशन्मुहूर्तान् एकस्य च मुहूर्तस्य पंचषष्टिं चतुस्त्रिंशदधिकशतभागानामवगाह्य पंचमो व्यतीपातोऽभूदिति, एवं सर्वेष्वपि व्यतीपातेषु भावनीयं ॥ सम्प्रति सूर्यनक्षत्रानयनायोपक्रम्यते, यदि द्वासप्ततिसंख्यैर्व्यतीपातैः पंच सूर्यनक्षत्रपर्याया भवन्ति तत एकस्मिन् व्यतीपाते किं भवति ? राशित्रयस्थापना ७२-५-१, अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जाताः पंचैव, तेषामाद्येन राशिना द्वासप्ततिलक्षणेन भागो हार्यः, ते च स्तोकत्वाद्भागं न प्रयच्छन्ति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयितव्या इति छेदराशिगुणराश्योः षट्केनापवर्त्तनाः, जातश्छेदराशिर्वादश, गुणकारराशिस्त्रीणि शतानि पंचोत्तराणि ३०५, तेनोपरितनो राशिः पंचकलक्षणो गुण्यते, जातानि पंचदश शतानि पंचविंशत्यधिकानि १५२५, छेदराशिना च द्वादशकलक्षणेन सप्तषष्टिर्गुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि ८०४, पुष्यस्य च सप्तषष्टिभागाश्चतुश्चत्वारिंशद् द्वादशभिर्गुण्यन्ते, जातानि पंच शतानि अष्टाविंशत्यधिकानि ५२८, तानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चान्नव शतानि सप्तनवत्यधिकानि ९९७, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागो हियते, लब्धमेकं नक्षत्रमश्लेषारूपं, स्थितं पश्चात्रिनवत्यधिकं शतं एतच्च नक्षत्रभागं न प्रयच्छतीति सप्तषष्टिभागानयनाय छेदराशिौल एव द्वादशलक्षणः परं पंचभिः सप्तषष्टिभागैरहोरात्रो लभ्यत इति स पंचभिर्गुण्यते, जाता षष्टिः तया भागो हियते, लब्धास्त्रयोऽहोरात्राः, शेषास्तिष्ठन्ति त्रोयदश, ते मुहूर्तानयनाय त्रिंशता गुण्यंते, जातानि त्रीणि शतानि नवत्यधिकानि ३९०, तेषां षष्ट्या