________________
३१०
ज्योतिष्करण्डकम्
पश्चान्न किमपि तिष्ठति, आगतमष्टसु पर्वसु गतेषु नवमस्य च पर्वणो नवसु तिथिषु गतासु दशभ्यां तिथौ पंचसु मुहूर्तेषु पंचमो व्यतीपातः समाप्तः, एवं सर्वेऽपि व्यतीपाताः । [संप्रति चन्द्रनक्षत्रव्यतीपात]परिज्ञानार्थमुपक्रम्यन्ते, यदि द्वासप्ततिसङ्ख्यैर्व्यतीपातैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकस्मिन् व्यतीपाते किं लभेयमिति, राशित्रयस्थापना ७२-६७-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यमराशेः सप्तषष्टिरूपस्य गुणनात् जाताः सप्तषष्टिरेव, तस्या द्वासप्तत्या भागो हियते, सा च स्तोकत्वाद्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयिष्याम इत्यस्य गुणकारराशेश्छेदराशेश्च द्वासप्ततिरूपस्य षट्केनापवर्त्तना, तत्र जातो गुणाकारराशिस्त्रीणि शतानि पंचोत्तराणि ३०५ छेदराशिर्वादश, गुणाकारराशिना च सप्तषष्टिगुण्यते, जातानि विंशतिसहस्राणि चत्वारि शतानि पंचत्रिंशदधिकानि २०४३५, छेदराशिरपि द्वादशलक्षणः सप्तषष्ट्या गुण्यते, जातान्यष्टौ शतानि चतुरुत्तराणि ८०४, ये चाभिजितः सप्तषष्टिभागा एकविंशतिस्तेऽपि द्वादशभिर्गुण्यन्ते, जाते द्वे शते द्विपंचाशदधिके २५२, ते उपरितनराशेः शोध्यन्ते, स्थितानि पश्चाविंशतिः सहस्राणि शतमेकं त्र्यशीत्यधिकं २०१८३, तेषामष्टभिः शतैश्चतुरुत्तरैर्भागो हियते, लब्धा पंचविंशतिः, शेषास्तिष्ठन्ति त्र्यशीतिः संप्रति मुहूर्ता आनेतव्याः, मुहूर्ताश्चाहोरात्रे त्रिंशत्, तस्याः षट्केनापवर्तनायां जाताः पंच, छेदराशिरपि षट्केनापवर्तितो जातश्चतुस्त्रिंशदधिकं शतं १३४, तत्र त्र्यशीतिः पंचभिर्गुणिता जातानि चत्वारि शतानि पंचदशोत्तराणि ४१५, तेषां चतुस्त्रिंशदधिकेन शतेन भागहरणं, लब्धास्त्रयो मुहूर्ताः, शेषास्तिष्ठन्ति त्रयोदश, तत्र द्वाविंशत्या श्रवणादीनि विशाखापर्यंतानि नक्षत्राणि शुद्धानि, शेषास्तिष्ठन्ति त्रयः, तैश्चानुराधाज्येष्ठामूलरूपाणि नक्षत्राणि शुद्धानि, परं ज्येष्ठानक्षत्रमर्द्धक्षेत्रमिति तत् पंचदशभिर्मुहूत्र्तेः शुद्धध्यति, शेषाः पंचदश तिष्ठन्ति, ते मुहूर्तराशौ प्रक्षिप्यन्ते, तत आगतंपूर्वाषाढानक्षत्रस्याष्टादश मुहूर्तानेकस्य मुहूर्तस्य च त्रयोदश चतुस्त्रिंशदधिकशतभागानवगाह्य प्रथमो व्यतीपातो गत इति, तथा यदि द्वासप्ततिसंख्यैर्व्यतीपातैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते ततः पंचभिर्व्यतीपातैः किं लभामहे ? राशित्रयस्थापना ७२-६७-५, अत्रान्त्येन राशिना मध्यराशेर्गुणनं, जातानि त्रीणि शतानि पंचत्रिंशदधिकानि ३३५, तेषां द्वासप्तत्या भागे हृते लब्धाश्चत्वारः पर्यायाः, न तैः प्रयोजनं, शेषास्तिष्ठन्ति सप्तचत्वारिंशत्, सा नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयितव्येति गुणकारच्छेदराश्योः षट्केनापवर्तनाज्जातो गुणकारराशिस्त्रीणि शतानि पंचोत्तराणि ३०५, छेदराशिर्वादश, तत्र गुणकारराशिना पंचोत्तरत्रिशतप्रमाणेन सप्तचत्वारिंशद् गुण्यते, जातानि चतुर्दश सहस्राणि त्रीणि शतानि