SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २८० ज्योतिष्करण्डकम् एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते, जाते द्वे शते द्वाविंशे २२२, तेषां षड्भिर्भागे हृते लब्धाः सप्तत्रिंशत् सप्त षष्टिभागा इति । सम्प्रति चन्द्रलॊरानयनाय करणमाह-विवक्षितस्य चन्द्रलॊरानयने कर्त्तव्ये युगादितो यत् पर्वसंख्यानमतिक्रान्तं तत् पञ्चदशगुणं नियमात्कर्तव्यं, ततः "तिथिसङ्क्षिप्त'मिति यास्तिथयः पर्वणामुपरि विवक्षितात् दिनात् प्रागतिक्रान्तास्तास्तत्र सङ्क्षिप्यन्ते, ततो द्वाषष्टिभागैः-द्वाषष्टिभागनिष्पन्नैरवमरात्रैः परिहीनं विधेयं, तदेवंभूतं सच्चतुस्त्रिंशेन शतेनाभिहतं-गुणितं कर्त्तव्यं, तदनन्तरं च पश्चोत्तरैस्त्रिभिः शतैः संयुक्तं सत् षड्भिर्दशोत्तरै शतैविभजेत्, विभक्ते च सति ये लब्धा अङ्कास्ते ऋतवो भवन्ति ज्ञातव्याः, एष करणगाथात्रयाक्षरार्थः, सम्प्रति करणभावना क्रियते-कोऽपि पृच्छति युगादितः प्रथमे पर्वणि पंचम्यां कश्चन्द्रर्तुर्वर्तते ? तत्रैकमपि पर्व परिपूर्णमत्र नाद्याप्यभूदिति युगादितो दिवसा रूपोना ध्रियन्ते, ते चात्र चत्वारः, ततस्ते चतुस्त्रिंशेन शतेन गुण्यन्ते, जातानि पंच शतानि षट्त्रिंशदधिकानि ५३६, तत्र भूयस्त्रीणि शतानि पंचोत्तराणि प्रक्षिप्यन्ते, जातान्यष्टौ शतान्येकचत्वारिंशदधिकानि ८४१, तेषां षड्भिः शतैर्दशोत्तरैर्भागो हियते, लब्धः प्रथम ऋतुः, अंशा उद्धरन्ति द्वे शते एकत्रिंशदधिके २३१, तेषां चतुस्त्रिंशेन शतेन भागहरणे लब्ध एककः, अंशानां च चतुस्त्रिशेन शतेन भागे हृते यल्लभ्यते ते दिवसा ज्ञातव्याः, शेषास्त्वंशा उद्धरन्ति सप्तनवतिस्तेषां द्विकेनापवर्तनायां लब्धाः सार्धा अष्टाचत्वारिंशत् सप्तषष्टिभागाः, आगतं युगादितः पंचम्यां प्रथमः प्रावृड्लक्षण ऋतुरतिक्रान्तो द्वितीयस्यैको दिवसो गतो, द्वितीयस्य च सार्द्धा अष्टचत्वारिंशत्सप्तषष्टिभागाः । तथा कोऽपि पृच्छति-युगादितो द्वितीयपर्वणि एकादश्यां कश्चन्द्रर्तुः ? इति, तत्रैकं पर्वातिक्रान्तमिति एको ध्रियते, स पंचदशभिर्गुण्यते, जाताः पंचदश, एकादश्यां किल पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते, जाता पंचविंशतिः, सा चतुस्त्रिंशेन शतेन गुण्यते, जातानि त्रयस्त्रिंशच्छतानि पंचाशदधिकानि ३३५०, तेषु त्रीणि शतानि पंचोत्तराणि प्रक्षिप्यन्ते, जातानि षट्त्रिंशच्छतानि पंचपंचाशदधिकानि ३६५५, तेषां षड्भिः शतैर्दशोत्तरैर्भागो हियते, लब्धाः पंचांशाः, अवतिष्ठन्ति षट् शतानि पंचोत्तराणि ६०५, तेषां चतुस्त्रिंशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसा: ४, शेषास्त्वंशा उद्धरन्ति एकोनसप्ततिः ६९, तस्या द्विकेनापवर्तनायां लब्धाः सार्द्धाश्चतुस्त्रिंशत्सप्तषष्टिभागाः, आगतं पंच ऋतवोऽतिक्रान्ताः, षष्ठस्य च ऋतोश्चत्वारो दिवसाः, पंचमस्य च दिवसस्य सार्द्धाश्चतुश्चत्वारिंशत् सप्तषष्टिभागाः, एवमन्यस्मिन्नपि दिवसे चन्द्रर्तुरवगन्तव्यः ॥ २७४-२७५-२७६ ॥ सम्प्रति चन्द्रर्तुपरिसमाप्तिदिवसानयनाय करणमाह
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy