SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २७६ ज्योतिष्करण्डकम् पश्चात् त्रिंशदधिकं शतं १३०, तेन च पूर्वाषाढा न शुध्यति, तत आगतं त्रिंशदधिकं शतं चतुस्त्रिंशदधिकशतभागानां पूर्वाषाढासत्कमवगाह्य चन्द्रस्त्रिंशत्तमं सूर्यतुं परिसमापयति । सम्प्रति सूर्यनक्षत्रयोगभावना क्रियते स एव पंचोत्तरशतत्रयप्रमाणो ध्रुवराशिः प्रथमसूर्यर्त्तुजिज्ञासायामेकेन गुण्यते, एकेन च गुणने तदेव भवतीति तावानेव जातः, तत्र पुष्यसत्का अष्टाशीतिः शुद्धा, स्थिते शेषे द्वे शते सप्तदशोत्तरे २१७, ततः सप्तषष्ट्याऽश्लेषा शुद्धा, स्थित शेषं सार्द्धं शतं १५० ततोऽपि चतुस्त्रिंशेन शतेन मघा शुद्धा, स्थिताः षोडश आगतं पूर्वफाल्गुनीनक्षत्रस्य षोडश चतुस्त्रिंशदधिकानि शतं भागानामवगाह्य सूर्यः प्रथममृतुं समापयति, तथा द्वितीयसूर्यर्त्तुजिज्ञासायां स ध्रुवराशिः पंचोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानि नव शतानि पंचदशोत्तराणि ९१५, ततोऽष्टाशीत्या पुष्यः शुद्धिमगमत् स्थितानि शेषाणि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि ८२७, तेभ्यः सप्तषष्ट्याऽश्लेषा शुद्धा, स्थितानि शेषाणि सप्त शतानि षष्ट्यधिकानि ७६०, तेभ्यश्चतुस्त्रिंशदधिकेन शतेन मघा शुद्धा, स्थितानि शेषाणि षट् शतानि षड्विंशत्यधिकानि ६२६, तेभ्यश्चतुस्त्रिंशदधिकेन शतेन पूर्वफाल्गुनी शुद्धा, स्थितानि पश्चाच्चत्वारि शतानि द्विनवत्यधिकानि ४९२, ततोऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरफाल्गुनी शुद्धा, स्थिते द्वे शते एकनवत्यधिके २९१, ततोऽपि चतुरिंशेन शतेन हस्तः शुद्धः स्थितं पश्चात्सप्तपंचाशदधिकं शतं १५७, ततोऽपि चतुरिंशेन शतेन चित्रा शुद्धा, स्थिता पश्चात्त्रयोविंशतिः आगतं स्वातेस्त्रयोविंशतिं चतुस्त्रिशदधिकशतभागानामवगाह्य सूर्यो द्वितीयमृतुं परिसमापयति, एवं शेषेष्वपि ऋतुषु भावनीयं, त्रिंशत्तमसूर्यर्त्तजिज्ञासायां स एव ध्रुवराशिः पंचोत्तरशतत्रयपरिमाण एकोनषष्ट्या गुण्यते, जातानि सप्तदश सहस्राणि नव शतानि पंचनवत्यधिकानि १७९९५, तत्र चतुर्दशभिः सहस्रैः षड्भिः शतैश्चत्वारिंशदधिकैः १४६४० चत्वारः परिपूर्णा नक्षत्रपर्यायाः शुद्धाः स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि पंचपंचाशदधिकानि ३३५५, तेभ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानि पश्चात् द्वात्रिंशच्छतानि सप्तषष्ट्यभ्यधिकानि ३२६७, तेभ्यो द्वात्रिंशता शतैरष्टापंचाशदधिकैः ३२५८ अश्लेषादीनि मृगशिर: पर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः शेषा नव ९, तेन चार्द्रा न शुध्यति, तत आगतं नव चतुस्त्रिंशदधिकशतभागान् आर्द्रासत्कानवगाह्य सूर्यस्त्रिंशत्तमं स्वमृतुं परिसमापयति ॥ २७२ ॥ तदेवमुक्ताः सूर्यर्त्तवः सम्प्रति चन्द्रतुप्रतिपादनार्थमाह ગાથાર્થ : ત્રણસો પાંચ અંશો છેદ એકસો ચોત્રીશ એકાદિ દ્વિઉત્તરગુણ આ ધ્રુવરાશિ भावो ॥ २७० ॥ ससह अर्धक्षेत्रमा जे-त्रा गुणा सभ, सार्धक्षेत्रमा खट्ठासी
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy