________________
अधिकार चौदमो ऋतु परिमाण
२६७
प्रथम ऋतुः प्रावृङ्नामा द्वितीयो वर्षारात्रस्तृतीयः शरत् चतुर्थो हेमन्त: पंचमो वसन्तः षष्ठो ग्रीष्मः, एते षडपि ऋतव एवंनामानो 'जिनवरदृष्टाः' सर्वज्ञदृष्टा मया 'शिष्टाः ' कथिताः ॥२६५ ॥ सम्प्रतमेतेषामृतूनां मध्ये क ऋतुः कस्यां तिथौ समाप्तिमुपयातीति परस्य प्रश्नावकाशमाशंक्य तत्परिज्ञानाय करणमाह
-
गाथार्थ : प्रावृष, वर्षा, शरद, हेमंत, वसंत तथा ग्रीष्म परेजर खाछ मे ઋતુઓ જિનેશ્વર ભગવંતોએ જોયેલી મેં કહી છે. ૨૬૫
टीअर्थ : प्रथम ऋतु प्रावृट् नामनी, जीभे वर्षारात्र, त्रीभे शरह, थोथो हेमंत, પાંચમો વસંત તથા છઠ્ઠો ગ્રીષ્મ, આ છએ ઋતુઓ જિનેશ્વર - સર્વજ્ઞોએ જોયેલી મેં કહી छे. ॥ २६५ ॥
હવે આ ઋતુઓમાંથી કયો ઋતુ કઈ તિથિએ સમાપ્ત થાય છે એવા પર(શિષ્ય)ના પ્રશ્નાવકાશની શંકા કરીને તેના પરિજ્ઞાન માટે કરણ બતાવે છે
इच्छाउऊ बिगुणिओ रूवोणो बिगुणिओ उ पव्वाणि । तस्सऽऽद्धं होइ तिही जत्थ समत्ता उऊ तीसं ॥ २६६ ॥
यस्मिन् ऋतौ ज्ञातुमिच्छा स ऋतुध्रियते, तत्संख्या ध्रियते इत्यर्थः ततः स द्विगुणित: क्रियते, द्वाभ्यां गुण्यत इतियावत् द्विगुणित: सन् रूपोनः क्रियते, ततः पुनरपि स द्वाभ्यां गुण्यते, गुणयित्वा च प्रतिराश्यते, द्विगुणितश्च सन् यावान् भवति तावन्ति पर्वाणि द्रष्टव्यानि, तस्य च द्विगुणीकृतस्य प्रतिराशितस्यार्द्धं क्रियते तच्चार्द्धं यावद् भवति तावत्यास्तिथयः प्रतिपत्तव्याः, यासु युगभाविनस्त्रिंशदपि ऋतवः समाप्ताः - समाप्तिमैयरुरिति करणगाथाक्षरार्थः, सम्प्रति करणभावना विधीयते - किल प्रथम ऋतुर्ज्ञातुमिष्टो यथा युगे कस्यां तिथौ प्रथमः प्रावृड्लक्षण ऋतुः समाप्तिमुपयातीति, तत्रैकको ध्रियते, स द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते रूपोने क्रियते, जात एककः, एवं स भूयोऽपि द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते प्रतिराश्येते, तयोरर्द्धे जातमेकं रूपमागतं युगादौ द्वे पर्वणी अतिक्रम्य प्रथमायां तिथौ प्रतिपदि प्रथमः प्रावृड्नामा ऋतुः समाप्तिमगमत् । तथा द्वितीये ऋतौ ज्ञातुमिच्छेति द्वौ स्थापितौ, तयोर्द्वाभ्यां गुणने जाताश्चत्वारस्ते रूपोना: क्रियन्ते जातास्त्रयस्ते भूयो द्वाभ्यां गुण्यन्ते जाताः षट् प्रतिराश्यन्ते, प्रतिराशितानां चार्द्धं क्रियते, जातास्त्रयः आगतं युगादितः षट्पर्वाण्यतिक्रम्य तृतीयायां तिथौ द्वितीय ऋतुः समाप्तिमुपागमत्, तथा तृतीये ऋतौ ज्ञातुमिच्छेति त्रयो