SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६४ ज्योतिष्करण्डकम् यल्लब्धं ते दिवसाः प्रवर्त्तमानस्य ऋतोर्ज्ञातव्याः, एष करणगाथाऽक्षरार्थः सम्प्रति करणभावना क्रियते-तत्र युगे प्रथमे दीपोत्सवे केनापि पुष्टं-कः सूर्यर्तुरनन्तरमतीतः ? को वा सम्प्रति वर्त्तते ? तत्र युगादितः सप्त पर्वाण्यत्तिक्रान्तानीति सप्त ध्रियन्ते, तानि पंचदशभिर्गुण्यंते, जातं पंचोत्तरं शतं, एतावति च काले द्वाववमरात्रावभूतामिति द्वौ ततः पात्येते स्थितं पश्चात् व्युत्तरं शतं १०३, तद् द्वाभ्यां गुण्यते, जाते द्वे शते षडुत्तरे २०६, तत्रैकषष्टिः प्रक्षिप्यन्ते, जाते द्वे शते सप्तषष्ट्याधिके २६७, तयोविंशेन शतेन भागो ह्रियते, लब्धौ द्वौ, तौ षड्भिर्भागं न सहत इति न तयोः षड्भिर्भागहारः, शेषास्त्वंशा उद्धरन्ति त्रयोविंशतिः, तेषामद्धे जाता एकादश अर्द्धं च, सूर्यश्चिाषाढादिस्तत आगतं द्वावृतू अतिक्रान्तौ, तृतीयश्च ऋतुः सम्प्रति प्रवर्त्तते, तस्य च प्रवर्त्तमानस्यैकादश दिवसा अतिक्रान्ता द्वादशो वर्तते इति । तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं-के ऋतवः पूर्वमतिक्रान्ताः ? को वा सम्प्रति वर्तते ? तत्राक्षयतृतीयायाः प्रथमायाः प्राग् युगस्यादित आरभ्य पर्वाण्यतिक्रान्तान्येकोनविंशतिः, तत एकोनविंशतिं धृत्वा पंचदशभिर्गुण्यते, जाते द्वे शते पंचाशीत्यधिके २८५, अक्षयतृतीयायां किल पृष्टमिति पर्वणामुपरितन्यस्तिस्रस्तिथयः प्रक्षिप्यन्ते, जाते द्वे शते अष्टाशीत्यधिके २८८, एतावति च कालेऽवमरात्रा: पंच भवन्ति इति पंच ततः पात्यन्ते, जाते द्वे शते त्र्यशीत्यधिके २८३, ते द्वाभ्यां गुण्येते, जातानि पंच शतानि षट्षष्ट्यधिकानि ५६६, तान्येकषष्टिसहितानि क्रियन्ते, जातानि षट् शतानि सप्तविंशत्यधिकानि ६२७, तेषां द्वाविंशेन शतेन भागो ह्रियते, लब्धाः पंच, पश्चादुद्धरन्ति सप्तदश, तेषामद्धे लब्धाः सार्द्धा अष्टौ, आगतं-पंच ऋतवोऽतिक्रान्ताः, षष्ठस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गता नवमो वर्त्तते । तथा युगे द्वितीये दीपोत्सवे केनापि पुष्टंकियन्त ऋतवोऽतिक्रान्ताः ? को वा सम्प्रति वर्तते ? तत्रैतावति काले पण्यितिक्रान्तानि एकत्रिंशत्, तानि पंचदशभिर्गुण्यन्ते, जातानि चत्वारि शतानि पंचषष्ट्यधिकानि ४६५, अवमरावाश्चैतावति व्यत्यक्रामन्नष्टौ, ततोऽष्टौ पात्यन्ते, स्थितानि शेषाणि चत्वारि शतानि सप्तपंचाशदधिकानि ४५७, तानि द्विगुणीक्रियन्ते, जातानि नव शतानि चतुर्दशोत्तराणि ९१४, तेष्वेकषष्टिभागप्रक्षेपे जातानि नव शतानि पंचसप्तत्यधिकानि ९७५, तेषां द्वाविंशेन शतेन भागहरणं, लब्धाः सप्त, उपरिष्टादंशा उद्धरन्ति एकविंशं शतं, तस्य द्वाभ्यां भागे हृते लब्धाः षष्टिः सार्धा, सप्तानां च ऋतुनां षड्भिर्भागे हते लब्ध एकः, एक उपरिष्टात्तिष्ठति,
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy