SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ अधिकार बारमो - आवृत्ति २४९ नक्षत्रस्य मुक्तेषु दक्षिणायनं चन्द्रः कृतवान्, ततः शेषाश्चतुश्चत्वारिंशत् सप्तषष्टिभागा अनन्तरोदितराशेः शोध्यत्ते स्थितानि शेषाणि अष्टौ शतानि एकसप्तत्यधिकानि ८७१, तेषां सप्तषष्ट्या भागोहियते, इह कानिचिद् [नक्षत्राणि] अर्द्धक्षेत्राणि तानि सार्धत्रयस्त्रिंशत्सप्तषष्टिभागप्रमाणानि, कानिचित् समक्षेत्राणि तानि परिपूर्णसप्तषष्टिभागात्मकानि, कानिचिच्चद्वयर्द्धक्षेत्राणि तान्यर्धभागाभ्यधिकशतसङ्ख्यसप्तषष्टिभागप्रमाणानि, गात्रं त्वधिकृत्य सप्तषष्ट्या शुद्धन्तीति सप्तषष्ट्या भागहरणं लब्धास्त्रयोदश, राशिश्चोपरितनो निर्लेपतः शुद्धः, तैश्च त्रयोदशभिरश्लेषाप्रभृतीन्युत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत आगतम्- अभिजिन्नक्षत्रस्य प्रथमसमये चन्द्र उत्तरायणानि करोति ॥ २५२ ॥ एतदेवाह पन्नरसेव मुहुत्ते जोइत्ता उत्तराअसाढाओ । एक्कं च अहोरत्तं पविसइ अभितरे चंदो ॥ २५३ ॥ चन्द्रः उत्तराषाढा पञ्चदश मुहूर्तान् एकं आहोरात्रं त्रिंशन्मुहूर्तप्रमाणं 'मुक्त्वा' संयुज्य सर्वबाह्यान्मण्डलाद् अभ्यन्तरं प्रविशति । उत्तराषाढानक्षत्रं हि व्यर्धक्षेत्रं ततस्तेन सह चन्द्रस्य पञ्चचत्वारिंशन्मुहूर्त्तान् योगः । सम्प्रति पुष्ये दक्षिणावृत्तिभावना- यदि चतुस्त्रिंशदधिकेन शतेन सप्तषष्टिः पर्याया लभ्यन्ते तत एकेनायनेन किं लभामहे ? । राशित्रयस्थापना-१३४/६७/१/ अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य सप्तषष्टिरूपस्य गुणनं जाता सप्तषष्टिरेव, तस्याश्चतुस्त्रिंशदधिकशतेन भागहरणं, लब्धमेकमद्धं पर्यायस्य, तच्च सप्तषष्टिभागरूपाणि नव शतानि पंचदशोत्तराणि ९१५, तत एकविंशतिरभिजितः सम्बन्धिनः सप्तषष्टिभागाः शोध्यन्ते, स्थितानि पश्चादष्टौ शतानि चतुर्णवत्यधिकानि ८९४, तेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रयोदश, तैस्त्रयोदशभिः पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, शेषास्तिष्ठन्ति त्रयोविंशतिः, एते च किल सप्तषष्टिभागा अहोरात्रस्य, ततो मुहूर्तभागकरणार्थं ते त्रिंशता गुण्यन्ते, जातानि षट्शतानि नवत्यधिकानि ६९०, तेषां सप्तषष्ट्या भागे हृते लब्धा दश मुहूर्ताः, शेषास्तिष्ठन्ति विंशतिः, आगतं पुनर्वसुनक्षत्रे सर्वात्मना भुक्ते पुष्यस्य च दशसु मुहूर्तेषु एकस्य च मुहूर्तस्य विंशतौ सप्तषष्टिभागेषु भुक्तेषु सर्वाभ्यन्तरान्मण्डलाब्दहिर्निष्क्रामति चन्द्रः ॥ १५२ ॥ तथा चाह दस य मुहुत्ते सगले मुहुत्तभागे य वीसई चेव । पुस्सविसयमभिगतो बहिया अभिनिक्खमइ चंदो ॥ २५३ ॥ एया आउट्टीओ भणिया मे वित्थरं पमोत्तूणं ।
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy