________________
अधिकार बारमो - आवृत्ति
२३९
सार्द्धास्त्रयस्त्रिंशत्सप्तषष्टिभागाः, तत्र सार्द्धा त्रयस्त्रिंशत् षड्भिर्गुण्यते, जाते द्वे शते एकोत्तरे २०१, षट् च नक्षत्राण्युत्तरभद्रपदादीनि व्यर्धक्षेत्राणि, ततस्तेषां प्रत्येकमेकं शतमेकस्य चार्द्धं सप्तषष्टिभागानां तत् षड्भिर्गुण्यते, जातानि षट् शतानि त्र्युत्तराणि ६०३, शेषाणि पंचदश नक्षत्राणि समक्षेत्राणि, ततस्तेषां प्रत्येकं सप्तषष्टिभागाः, ततः सप्तषष्टिः पञ्चदशभिर्गुण्यते, जातं पंचोत्तरं सहस्रं १००५ एकविंशतिश्च सप्तषष्टिभागा अभिजितः, सर्व संख्यया सप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि १८३०, एष परिपूर्णसप्तषष्टिभागात्मको नक्षत्रपर्यायः, एतस्यार्द्धे नव शतानि पंचदशोत्तराणि ९१५, तेभ्य एकविंशतिरभिजितः सम्बन्धिनी शुद्धा, शेषाः तिष्ठन्त्यष्टौ शतानि चतुर्णवत्यधिकानि ८९४, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति त्रयोविंशतिः २३, त्रयोदशभिश्च पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, ये च शेषास्तिष्ठन्ति त्रयोविंशतिः सप्तषष्टिभागस्ते किल 'जं रिक्खं जावइए वच्चइ चंदेण भागसत्तट्ठी । तं पणभागे राइंदियस्स सूरेण तावइए ॥१॥ [गा. १६२ ] इति वचनप्रमाण्यात् सूर्यमधिकृत्य रात्रिन्दिवस्य पंच भागा द्रष्टव्याः, ततस्त्रयोविंशतेः पंचभिर्भागो हियते, लब्धाश्चत्वारो दिवसाः त्रयश्च पंचभागा रात्रिंदिवस्य, तत्रैकैकस्मिन् पंचभागे षड् मुहूर्त्ता लभ्यन्ते, अहोरात्रो हि त्रिंशन्मुहूर्त्तप्रमाणः ततस्तस्य पंचमो भागः षण्मुहूर्त्तप्रमाणो भवतीति, त्रिभिश्च पंचभागैरष्टादश मुहूर्त्ताः, त्रयाणां षट्कानामष्टादशप्रमाणत्वात्, तत आगतं-चतुर्षु दिवसेष्वष्टादशमुहूर्त्तेषु पुष्यनक्षत्रस्य भुक्तेषु सर्वाभ्यन्तरान्मण्डलाद्बहिः सूर्यो निष्क्रामति ॥ २४८ ॥ साम्प्रतमभ्यन्तरं विशतः सूर्यस्य माघमासभाविनीनामावृत्तीनां प्रारम्भे नक्षत्रयोगमाह—
ગાથાર્થ : એક ન્યૂન આવૃત્તિઓ ૧૮૩ થી ગુણતાં થાય છે. જેનાથી ગુણ કર્યો તે ત્રિગુણ રૂપાધિક ત્યાં નાંખો. || ૨૩૯ || તેનો ૧પથી ભાગતાં જે આવે તેટલા પર્વોમાં આવૃત્તિ થાય છે, તથા જે અંશો બાકી રહે તે દિવસો જાણવા અને ત્યાં આવૃત્તિ भावी ॥ २४० ॥
ટીકાર્થ : એક ઓછી આવૃત્તિઓ ૧૮૩થી ગુણતાં થાય છે. અર્થાત્ જે આવૃત્તિ વિશિષ્ટ તિથિ યુક્ત જાણવાની ઇચ્છા હોય તે સંખ્યા ૧ ન્યૂન કરવી. પછી તેનાથી ૧૮૩ને ગુણવા, ગુણીને જે અંક સ્થાનથી ગુણિત ૧૮૩ છે તે અંક સ્થાનને ત્રણગણું કરીને ૧ રૂપ અધિક કરી પૂર્વ રાશિમાં નાંખવું. પછી ૧૫થી ભાગ કરવો ભાગ કરતાં જે
"1
१. (७८.) “यन्नक्षत्रं यावत्या व्रजति चन्द्रेण भागसप्तषष्टिः । तत्पञ्चभागे रात्रिंदिवस्य सूर्येण तावत्याः '
1