________________
२३६
ज्योतिष्करण्डकम्
एयाई सोहइत्ता जं सेसं तं हविज्ज नक्खत्तं ।
चंदेण समाउत्तं आउट्टीए उ बोद्धव्वं ॥ २४७ ॥ ''एतानि' अनन्तरोदितानि शोधनकानि यथासम्भवं शोधयित्वा यच्छेषमुद्धरति तत्र यथायोगमपान्तरालवर्त्तिषु नक्षत्रेषु शोधितेषु यन्नक्षत्रं न शुध्यति तन्नक्षत्रं चन्द्रेण समायुक्तं विवक्षितायामावृत्तौ बोद्धव्यं, तत्र प्रथमायामावृत्तौ प्रथमतः प्रवर्त्तमानायां केन नक्षत्रेण युक्तश्चन्द्र इति यदि जिज्ञासा ततः प्रथमावृत्तिस्थाने एकको ध्रियते, स रूपोनः क्रियत इति न किमपि पश्चाद्रूपमवतिष्ठति ततः पाश्चात्ययुगभाविनीनामावृत्तीनां मध्ये या दशमी आवृत्तिस्तत्संख्या दशकरूपा ध्रियते, तया प्राचीनः समस्तोऽपि ध्रुवराशिः पंच शतानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षट्त्रिंशद् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टिभागाः ५७३-३६।६२-६।६७ इत्येवंप्रमाणो गुण्यते, तत्र मुहूर्तराशौ दशभिर्गुणिते जातानि सप्तपंचाशच्छतानि त्रिंशदधिकानि ५७३०, येऽपि षट्त्रिंशद् द्वाषष्टिभागास्तेऽपि दशभिर्गुणिता जातानि त्रीणि शतानि षष्ट्यधिकानि ३६०, तेषां द्वाषष्ट्या भागे हृते लब्धाः पंच मुहूर्तास्ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशिः सप्तपंचाशच्छतानि पंचत्रिंशदधिकानि ५७३५, शेषास्तिष्ठन्ति द्वाषष्टिभागाः पंचाशत्, येऽपि च षट् चूर्णिकाभागास्तेऽपि दशभिर्गुणिता जाताः षष्टिः, तत एतस्माच्छोधनकानि शोध्यन्ते, तत्रोत्तराषाढान्तानां नक्षत्राणां शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि ८१९, तानि किल यथोदितराशेः सप्तकृत्वः शुद्धिमाप्नुवन्तीति सप्तभिर्गुण्यन्ते, जातानि सप्तपंचाशच्छतानि त्रयस्त्रिंशदधिकानि ५७३३, तानि सप्तपंचाशच्छतेभ्यः पंचत्रिंशदधिकेभ्यः पात्यन्ते, स्थितौ पश्चाद् द्वौ मुहूत्तौं, तौ द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्येते, जातं चतुर्विंशं शतं द्वाषष्टिभागानां १२४, तत् प्राक्तने पंचाशल्लक्षणे द्वाषष्टिभागराशौ प्रक्षिप्यते, जातं चतुःसप्तत्यधिकं शतं १७४ द्वाषष्टिभागानां तथा योऽभिजितः सम्बन्धिनश्चतुर्विंशतिषष्टिभागाः शोध्यास्ते सप्तभिर्गुण्यन्ते, जातमष्टषष्टयधिकं शतं १६८, तच्चतुःसप्तत्यधिकात् शतात् शोध्यते, स्थिताः शेषाः षड् द्वाषष्टिभागाः ते च चूर्णिकाभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, गुणयित्वा च ये प्राक्तनाः षष्टिः सप्तषष्टिभागास्ते प्रक्षिप्यन्ते, जातानि चत्वारि शतानि द्वाषष्ट्यधिकानि ४६२, ततो येऽभिजितः सम्बन्धिनः षट्षष्टिथूर्णिकाभागास्ते सप्तभिर्गुण्यन्ते, जातानि चत्वारि शतानि द्वाषष्ट्यधिकानि ४६२, तान्यनन्तरोदितराशेः शोध्यन्ते, स्थितं पश्चात् शून्यं, तत आगतंसाकल्येनोत्तराषाढानक्षत्रे चन्द्रेण भुक्ते सति तदनन्तरस्याभिजितो नक्षत्रस्य प्रथमसमये युगे