________________
अधिकार बारमो - आवृत्ति
२३५ भागो हियते, लब्धाश्चतुर्विंशतिषष्टिभागाः, शेषास्तिष्ठन्ति षट्षष्टिस्ते चैकस्य द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागा इति ॥ २४३ ॥ सम्प्रति शेषनक्षत्राणां शोधनकमाह - 'उगुणे'त्यादि, 'एकोनषष्टम्' एकोनषष्ट्यधिकं शतं 'प्रौष्ठपदा' उत्तरभद्रपदाः, किमुक्तं भवति ?एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदान्तानि नक्षत्राणि शुद्ध्यन्ति, तथाहि-नव मुहूर्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशद्धनिष्ठायाः पंचदश शतभिषजस्त्रिंशत् पूर्वभद्रपदायाः पंचचत्वारिंशदुत्तरभद्रपदाया इति शुध्यन्त्येकोनषष्ट्यधिकेन शतेनोत्तरभाद्रपदान्तानि नक्षत्राणि, तथा त्रिषु नवोत्तरशतेषु 'रोहिणिका' रोहिणिकान्तानि शुध्यन्ति, तथाहि-एकोनषष्ट्यधिकेन शतेनोत्तरभाद्रपदान्तानि शुध्यन्ति, ततस्त्रिंशन्मुहूर्ते रेवती त्रिंशन्मुहूर्तेरश्विनी पंचदशभिर्भरणी त्रिंशता कृत्तिका पंचचत्वारिंशता रोहिणीकेति, तथा त्रिषु नवनवत्यधिकशतेषु 'पुनर्वसु' पुनर्वस्वन्तानि शुद्ध्यन्ति, तत्र त्रिभिः शतैर्नवोत्तरै रोहिणिकान्तानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्तेर्मृगशिरः पंचदशभिरार्द्रा पंचचत्वारिंशता पुनर्वसुरिति, तथा पंच शतानि एकोनपञ्चाशानि एकोनपंचाशदधिकानि उत्तरफाल्गुनीपर्यन्तानि, किमुक्तं भवति? पंचभिः शतैरेकोनपंचाशदधिकैरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शुद्ध्यन्ति, तथाहि-त्रिभिः शतैर्नवनवत्यधिकैः पुनर्वस्वन्तानि शुद्ध्यन्ति, ततस्त्रिंशता मुहूर्तेः पुष्यः पंचदशभिरश्लेषा त्रिंशता मघा त्रिंशता पूर्वफाल्गुनी पंचचत्वारिंशता उत्तरफाल्गुनीति, तथा षट्शतानि एकोनसप्ततानि-एकोनसप्त्यधिकानि 'विशाखानां' विशाखापर्यन्तानां नक्षत्राणां शोध्यानि, तथाहि-उत्तराफाल्गुनीपर्यन्तानां पंच शतान्येकोनपंचाशदधिकानि शोध्यानि, ततस्त्रिंशन्मुहूर्ता हस्तस्य त्रिंशच्चित्रायाः पंचदश स्वातेः पंचचत्वारिंशद्विशाखाया इति, तथा 'मूले' मूलनक्षत्रे शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४, तत्र षट् शतान्येकोनसप्तत्यधिकानि ६६९ विशाखान्तानां नक्षत्राणां शोध्यानि, ततस्त्रिंशन्मुहूर्ता अनुराधायाः पंचदश ज्येष्ठायाः त्रिंशन्मूलस्येति, तथा अष्टौ शतानि समाहृतानि अष्टशतमेकोनविंशत्यधिकं, किमुक्तं भवति ? - अष्टौ शतान्येकानविंशत्यधिकानि 'उत्तराषाढानाम्' उत्तराषाढान्तानां नक्षत्राणां शोधनकं, तथाहि-मूलान्तानां नक्षत्राणां शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४, ततस्त्रिंशन्मुहूर्ताः पूर्वाषाढानक्षत्रस्य पंचचत्वारिंशदुत्तराषाढानामिति, तथा यथासम्भवं सर्वेषामपि चामीषां शोधनकानामुपर्यभिजितः सम्बन्धिनश्चतुर्विशतिद्वाषष्टिभागाः शोध्याः, एकस्य च द्वाषष्टिभागस्य सत्काः षट्षष्टिमूर्णिकाभागाः ॥ २४६ ॥