SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२८ ज्योतिष्करण्डकम् ____'सूर्यस्य' आदित्यस्य 'युगे' चन्द्रचन्द्राभिवर्द्धितचन्द्रअभिवर्द्धितसंवत्सरपंचकपरिमाणे आवृत्तयो यथोदितस्वरूपाः अयनसमा भवन्ति, अयनप्रथमप्रवृत्तेरावृत्तिशब्दवाच्यत्वात्, ताश्च कतिसङ्ख्याः ? इत्याह-दश तथा चन्द्रस्यावृत्तीनां शतं चतुस्त्रिंशदधिकम्, अयनानां हि प्रथमाः प्रवृत्तय आवृत्तिशब्दवाच्याः, चन्द्रस्य चायनान्येतावन्ति भवन्ति, तदावृत्तयोऽप्येतावत्य एव, अथैकस्मिन् युगे सूर्यस्य दशायनानि भवन्तीति, कथमवसीयते उच्यतेत्रैराशिकबलात्, तथाहि-यदि त्र्यशीत्यधिकेन शतेनैकमयनं भवति ततोऽष्टादशभिः शतैस्त्रिंशदधिकैः कत्ययनानि भवन्ति ? राशित्रयस्थापना- १८३-१-१८३०, अत्रान्त्येन राशिना मध्यमस्य राशेर्गुणनम्, एकस्य च गुणने तदेव भवतीति जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०, तेषामाद्येन राशिना त्र्यशीत्यधिकशतप्रमाणेन भागहरणं, लब्धा दश, आगतं युगमध्ये सूर्यस्य दशायनानि भवंतीत्यावृत्तयो दश । [तथा] यदि त्रयोदशभिदिवसैश्चतश्चत्वारिंशता च सप्तषष्टिभागैरेकं चन्द्रस्यायनं भवति ततोऽष्टादशभिदिवसशतैस्त्रिंशदधिकैः कति चन्द्रायणानि भवन्ति ?, राशित्रयस्थापना-१३,४४।६७-११८३०तत्राद्ये राशौ सवर्णनाकरणार्थं त्रयोदश दिनानि सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुश्चत्वारिंशत् सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि नव शतानि पंचदशोत्तराणि ९१५, यानि चाष्टादश शतानि त्रिंशदधिकानि तान्यपि सवर्णनार्थं सप्तषष्ट्या गुण्यन्ते, जातानि द्वादश लक्षाणि द्वे सहस्रे षट् शतानि दशोत्तराणि १२०२६१०, तत्रैवंरूपेणान्त्येन राशिना मध्यमस्य एककस्य गुणनं, एकस्य च गुणने तदेव भवतीत्येष एव राशिर्जातः, तस्य नवभिः शतैः पंचदशोत्तरैर्भागो हियते, लब्धं चतुस्त्रिंशं शतं, एतावन्ति चन्द्रायणानि युगमध्ये भवन्तीति एतावत्यश्चन्द्रमस आवृत्तयः ॥ २३२ ॥ सम्प्रति या सूर्यस्यावृत्तिर्यस्मिन् दिने भवति तां तथा प्रतिपादयति ગાથાર્થ : સૂર્યની એક યુગમાં અયનસમાન દશ આવૃત્તિઓ હોય છે તથા ચંદ્રની એકસો ચોત્રીશ આવૃત્તિઓ હોય છે. ર૩રા ટીકાર્થ ઃ સૂર્યની એક યુગમાં અયન સમાન દશ આવૃત્તિઓ હોય છે. અયનની પ્રથમ પ્રવૃત્તિ એ આવૃત્તિ શબ્દથી વાચ્ય છે તથા ચંદ્રની એકસો ચોત્રીશ આવૃત્તિઓ છે. ચન્દ્રની અયન સંખ્યા એટલી હોય છે અને અયનની પ્રથમ પ્રવૃત્તિ (શરૂઆત) એ १. इतोऽग्रे मु. मध्ये अधिकः पाठः -इत्थं दृश्यते-(आदर्शेषुनोपलभ्यते) सूर्यस्यावृत्तयो युगे दश भवन्ति, चन्द्रमसश्चावृत्तीनां चतुस्त्रिंशं शतमिति, उच्यते, उक्तं नामसु आवृत्तयस्तयोदक्षिणोत्तरगमनरूपाः, ततः सूर्यस्य चन्द्रमसो वा यावन्त्ययनानि तावत्य आवृत्तयः, सूर्यस्य चायनानि दश, एतच्चावसीयते
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy