________________
२२०
ज्योतिष्करण्डकम्
છે. આટલું એક દક્ષિણ અથવા ઉત્તર અયનનું પ્રમાણ છે. હવે, તે દક્ષિણ કે ઉત્તર અયનના પરિજ્ઞાન વિષયમાં ‘કરણરૂપ પ્રકાર” પૂર્વાચાર્યોના ઉપદેશથી પ્રતિપાદન કરાતું समज. ॥ २२२ ॥
सूरस्स अयणकरणं पव्वं पन्नरससंगुणं नियमा । तिहिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ २२३ ॥ तेसीयसयविभत्तंमि तम्मि लद्धं तु रूवमाएज्जा । जइ लद्धं होइ समं नायव्वं उत्तरं अयणं ॥ २२४ ॥ अह हवइ भागलद्धं विसमं जाणाहि दक्खिणं अयनं ।
जे अंसा ते दिवसा होति पवत्तस्स अयणस्स ॥ २२५ ॥ सूर्यस्यानपरिज्ञानविषये करणमिदं, वक्ष्यमाणमिति शेषः, तदेवाह- 'पर्व' पर्वसंख्यानं पंचदशसंगुणं नियमात्कर्त्तव्यं, किमुक्तं भवति ? युगमध्ये विवक्षितदिनात् प्राग् यानि पर्वाण्यतिक्रान्तानि तत्संख्या पंचदशगुणा कर्त्तव्येति, ततः पर्वणामुपरि यास्तिथयोऽतिक्रान्तास्तत्र संक्षिप्यन्ते, ततो 'बावट्ठीभागपरिहीण मिति प्रत्यहोरात्रमेकैकेन द्वाषष्टिभागेन परिहीयमानेन ये निष्पन्ना अवमरात्रास्तेऽप्युपचाराद् द्वाषष्टिभागा इत्युच्यन्ते, तैः परिहीनं विधेयं, ततस्तस्मिन् त्र्यशीत्यधिकेन शतेन विभक्ते सति यल्लब्धं रूपमेकद्व्यादिकं तदादेयात्-गृह्णीयात्, पृथक्स्थाने स्थापयेदित्यर्थः, तत्र यदि लब्धं सम-द्विचतुरादिरूपं भवति तदोत्तरमयनमनन्तरमतीतं ज्ञातव्यं, अथ भवति भागे लब्धं विषमं तदा जानीहि दक्षिणमयनमनन्तरमतीतं, ये तु शेषा अंशाः पश्चादवतिष्ठन्ते ते तत्कालप्रवृत्तस्यायनस्य दिवसा भवन्ति ज्ञातव्याः ॥ यथा युगमध्ये नवमासातिक्रमे पंचम्यां केनापि पृष्टंकिमयनमनन्तरमतीतं किं वा साम्प्रतमयनं वर्त्तते ? इति, तत्र नवसु मासेष्वष्टादश पर्वाणि, ततोऽष्टादश पंचदशभिर्गुण्यन्ते, जाते द्वे शते सप्तत्यधिके २७०, नवानां च मासानामुपरि पंचम्यां पृष्टमिति पंच तत्र प्रक्षिप्यन्ते, जाते द्वे शते पंचसप्तत्यधिके २७५, नवसु मासेषु चत्वारोऽवमरात्रा भवन्ति, ततस्ते चतुर्भिर्डीनाः क्रियन्ते, जाते द्वे शते एकसप्तत्यधिके २७१, अस्या राशेस्त्र्यशीत्यधिकेन शतेन भागो हियते, लब्धमेकं रूपं, शेषास्तिष्ठन्त्यष्टाशीतिः, तत आगतमिदम्-एकमयनमतीतं, तदपि च दक्षिणायनं, साम्प्रतमुत्तरायणं वर्त्तते, तस्य चाष्टाशीतितमो दिवसो व्रजतीति, तथा युगमध्ये पंचविंशतिमासातिक्रमे दशम्यां केनापि