________________
२१०
ज्योतिष्करण्डकम्
भ्यन्तरं प्रविशतोः सूर्ययोः एकैकस्मिन् मण्डले अबाधाहानिः, तद्यथा-सर्वबाह्याद् मण्डलादभ्यन्तरं द्वितीये मण्डले प्रविष्टयोः सूर्ययोः परस्परमबाधा योजनशतसहस्रं षट् शतानि चतुष्पंचाशदधिकानि षड्विंशतिश्चैकषष्टिभागा योजनस्य १००६५४-२६।६१ सर्वबाह्यादभ्यन्तरं तृतीये मण्डले योजनशतसहस्रं षट् शतान्यष्टाचत्वारिंशदधिकानि द्विपंचाशच्चैकषष्टिभागा योजनस्य १००६४८-५२।६१, एवं सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतोः सूर्ययोः परस्परमन्तरचिन्तायां पंच योजनानि पंचत्रिंशच्चैकषष्टिभागा योजनस्य ५-३५।६१ हानिस्तावन्नेतव्या यावत्सर्वाभ्यन्तरं मण्डलं, तस्मिंश्च सर्वाभ्यन्तरे मण्डले बाधा प्रागेव प्रतिपादिता ॥ २१६ ॥ चन्द्रमसोरपि सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले सूर्ययोरिव परस्परमबाधापरिमाणमवसेयं, नवरं सर्वबाह्ये मण्डले सूर्यापेक्षया षोडशभिपरेकषष्टिभागैन्यूनं, यत एकोऽप्यष्टावेकषष्टिभागान् सूर्याभ्यन्तरमाक्रामति, अपरोऽपि, ततः षोडशभिर्भागैन्यूनता, शेषेषु तु मण्डलेषु प्रत्येकं दक्षिणायने वृद्धिरुत्तरायणे हानिर्दासप्ततियोजनानि एकपंचाश-च्चैकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागः, एतदेवाह
चन्दस्स जोयणाणि य बिसत्तरी एकवण्ण अंसा य ।
एकट्टिकते छए नायव्वा सत्त भागा य ॥ २१७ ॥ . सर्वाभ्यन्तरसर्वबाह्यव्यतिरिक्तेषु शेषेषु मण्डलेषु प्रत्येकं चन्द्रस्य चन्द्रस्य परस्परमबाधाया दक्षिणायने वृद्धिरुत्तरायणे हानिर्द्विसप्ततिर्योजनानि एकपंचाशच्चांशाः एकषष्टिकते छेदे, किमुक्तं भवति ? एकपंचाशदेकषष्टिभागा योजनस्य, तथैकस्य चैकषष्टिभागस्य सत्क एक सप्तभागः, तथाहि-एकस्य चन्द्रविकम्पस्य परिमाणं षट्त्रिंशद् योजनानि पंचविंशतिरेकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्काश्चत्वारो भागाः, ततः एतस्य द्वाभ्यां गुणने भवति यथोक्तमबाधावृद्धिहान्योः परिमाणं, तत्रेदमेव व्यक्तमुपदय॑ते-सर्वाभ्यन्तरे मण्डले परस्परमबाधा नवनवतियोजनसहस्राणि षट् शतानि चत्वारिंशदधिकानि ९९६४०, सर्वाभ्यन्तरानन्तरे तु द्वितीये मण्डले परस्परमबाधा नवनवतियोजनसहस्राणि सप्त शतानि द्वादशोत्तराणि एकपंचाशच्चैकषष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिनस्य सत्क एको भागः ९९७१२, ५१, - तृतीये मण्डले नवनवतिः योजनसहस्राणि सप्त शतानि पंचाशीत्यधिकानि एकचत्वारिंशदेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सप्तधाछिनस्य सत्कौ द्वौ भागौ ९९७८५-४१।६१-२७ चतुर्थे मण्डले नवनवतिः योजनसहस्राण्यष्टौ शतान्यष्टापंचाशदधिकानि एकत्रिंशच्चैकषष्टि