________________
१९४
ज्योतिष्करण्डकम्
षष्ठादिषु चन्द्रमण्डलेषु प्रागुक्तकरणवशाद् यल्लभ्यते तत्र यत् रवेः-सूर्यण्डलात् यत् शेषं वर्त्तते तद्रविशशिनोरन्तरं ज्ञातव्यं, 'तं चे'-त्यादि, अत्र तं चेति प्रथमा सप्तम्यर्थे, ससि सुद्ध इत्यत्र च प्रत्येकं विभक्तिलोप आर्षत्वात्, ततोऽयमर्थः-तस्मिन् रविशशिनोन्तरे, चशब्दो भिन्नक्रमः, स चैवं योजनीय:-शशिन च सूर्यान्तरात्-सूर्यान्तरपरिमाणाद् योजनद्विकरूपात् शुद्धे शेषं यदधिकं सूर्यान्तरपरिमाणस्य वर्त्तते तत् शशिनो बहिः सूर्यमण्डलादर्वागन्तरमवसेयं, यथा षष्ठे किल चन्द्रमण्डलेऽन्तरं ज्ञातुमिच्छा, ततः षड् रूपोनाः क्रियन्ते, जाता: पंच, तैरेकादशैकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागा गुण्यन्ते, जाताः सप्तपंचाशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काः षट् सप्तभागाः, तत्राष्टाचत्वारिंशदेकषष्टिभागैः सूर्यमण्डलं विशुद्धं, शेषाश्च नवैकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्काः षट् सप्तभागास्तिष्ठन्ति, एतावत्तत्र प्रदेशे रविशशिनोरन्तरं, तत एतस्मिन् सूर्यान्तरपरिमाणाद् द्वियोजनरूपात्परिशुद्धे चन्द्रमण्डलपरिमाणे च षट्पंचाशदेक षष्टिभागरूपे शुद्धे यच्छेषमवतिष्ठते षट्पंचाशदेकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागः, एतावत्षष्ठाच्चन्द्रमण्डलात्परतः सूर्यमण्डलादर्वागन्तरम्, एवं शेषेष्वपि मण्डलेषु भावनीयम् ॥ २०६ ॥
जत्थ न सुज्झइ सोमो तं ससिणो तत्थ होड़ पत्तेयं ।
तस्सेसं सामन्नं सामनविसेसियं रविणो ॥ २०७ ॥ यत्र चन्द्रमण्डलक्षेत्रेऽनन्तरोक्तकरणचिन्तायां 'सोमः' चन्द्रो न शुद्ध्यति, यथैकादशे द्वादशे त्रयोदशे चतुर्दशे पंचदशे वा, तत्र यावत्प्रमाणं शशिनः शुद्धं तत् शशिनः प्रत्येकंअसाधारणं ज्ञातव्यं, तस्माच्च परतो यच्छेषं चन्द्रमण्डलान्तर्गतं सूर्यमण्डलसत्कं तत्सामान्यंउभयसम्मिश्रं ज्ञातव्यं, तस्माच्च सामान्यात्परतो यद्विशेषितं असाधारणं वर्त्तते तद्रवेरवसेयं, यथा किलैकादशे चन्द्रमण्डलेऽन्तरादिपरिमाणजिज्ञासा, तत एकादश रूपोनाः जाता दश, तैरेकादश एकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागा गुण्यन्ते, जातं पंचदशोत्तरमेकषष्टिभागशतं एकस्य चैकषष्टिभागस्य सत्काः पंचसप्तभागाः ११५।६१, ५७, एतेषां मध्येऽष्टचत्वारिंशतैकषष्टिभागैः सूर्यमण्डलं शुद्धं, शेषाः सप्तषष्टिरेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काः पंच सप्त भागास्तिष्ठन्ति, एतत् सूर्यान्तरपरिमाणाद् योजनद्वयरूपाच्छोध्यते, शेषं तिष्ठन्ति चतुष्पंचाशदेकषष्टिभागा द्वौ चैकस्यैकषष्टिभागस्य सत्कौ सप्तभागौ, एतावता चन्द्रो न शुद्ध्यति, चन्द्रमण्डलस्य षट्पंचाशदेकषष्टिभागप्रमाणात्, तत एतावत्