________________
अधिकार दसमो - मंडल विभाग
१९३
હવે, શેષ બીજાદિ ચંદ્રમંડળોમાં જેટલા પ્રમાણ સૂર્યમંડળ અત્યંતર પ્રવેશેલું છે તેટલું પ્રમાણ પ્રતિપાદન કરવા માટે કરણ બતાવે છે
इच्छामण्डलरूवूणगुणियं अब्भंतरं तु सूरस्स ।
तस्सेसं सामण्णं सामण्णविसेसियं ससिणो ॥ २०५ ॥ ____ यस्मिन् सूर्यमण्डलस्य चन्द्रमण्डलादभ्यन्तरं प्रविष्टस्य ज्ञातुमिच्छा तेन इच्छामण्डलेन रूपोनेन प्राक्तनमनन्तरोक्तमभ्यन्तरप्रविष्टसूर्यमण्डलपरिमाणं गुणितं क्रियते, गुणितं च सद् यावद्भवति तावत्प्रमाणं तस्मिन् मण्डले चन्द्रमण्डलादभ्यन्तरं सूर्यस्य मण्डलं प्रविष्टमवसेयं, तद्यथा-तृतीये चन्द्रमण्डले किल ज्ञातुमिच्छा, ततस्त्रयो रूपोनाः क्रियन्ते, जातौ द्वौ, ताभ्यां प्रागुक्ता एकादशैकषष्टि गा गुण्यन्ते, जाता द्वाविंशतिः, येऽपि च चत्वारः सप्तभागास्तेऽपि द्वाभ्यां गुण्यन्ते, जाता अष्टौ, सप्तभिरेक एकषष्टिभागो लब्धः, स पूर्वराशौ प्रक्षिप्यते, तत आगतं-तृतीये चन्द्रमण्डले चन्द्रमण्डलादभ्यन्तरं प्रविष्टं सूर्यमण्डलं त्रयोविंशतिरेकषष्टिभागा एकस्य चैकषष्टिभागस्य सप्तधाछिनस्य सत्क एको भागः, एवं चतुर्थे चन्द्रमण्डले चन्द्रमण्डलादभ्यन्तरे सूर्यमण्डलं प्रविष्टं चतुस्त्रिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सत्काः पंच सप्तभागाः, पंचमे मण्डले षट्चत्वारिंशदेकषष्टिभागाः एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य द्वौ सप्तभागौ षष्ठादिषु तु चन्द्रमण्डलेषु विशेषं वक्ष्यति-'तस्सेसं सामण्णं'ति तस्य-अभ्यन्तरप्रविष्टस्य सूर्यमण्डलस्य यच्छेषं सूर्यमण्डलसत्कं तत् 'सामान्यं' साधारणं, चन्द्रमण्डलान्तः प्रविष्टमित्यर्थः, यत्सामान्याद्विशेषितं-अतिरिक्तं चन्द्रमण्डलविष्कम्भस्य तच्छशिनोऽसाधारणं द्रष्टव्यं, तद्यथा-द्वितीये चन्द्रमण्डले सूर्यमण्डलं प्रविष्टमिति, चन्द्रमण्डलस्य च विष्कम्भः षट्पंचाशदेकषष्टिभागा योजनस्य, ततः षट्पंचाशतः षट्त्रिंशत्येक षष्टिभागेषु त्रिषु चैकषष्टिभागस्य सप्तभागेष्वपनीतेषु शेषास्तिष्ठन्त्येकोनविंशतिरेकषष्टिभागाः एकस्य चैकषष्टिभागस्य चत्वारः सप्तभागाः, एतावत्प्रमाणं द्वितीयचन्द्रमण्डलक्षेत्रे सूर्यमण्डलाद् बहिर्विनिर्गतं चन्द्रमण्डलमिति, एवं सर्वेष्वपि मण्डलेषु भावनीयं, भावयिष्यते चाग्रे स्वयमेवैतदाचार्य इति न संमोहः कार्यः ॥ २०५ ॥ सम्प्रति षष्ठादिषु चन्द्रमण्डलेषु विशेषमाह
छट्टाइसु रविसेसं रविससिणो अंतरं तु नायव्वं । तं च ससि सुद्ध सूरंतराहियं अंतरं बाहिं ॥ २०६ ॥