________________
अधिकार दसमो - मंडल विभाग
चंदविकंपं एक्कं सूरविकंपेण भायए नियमा ।
जं हवइ भागलब्द्धं सूरविकंपा उ ते होंति ॥ २०० ॥
१८५
एकं चन्द्रविकम्पं षट्त्रिंशत् योजनानि पंचविंशतिरेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सप्तधाछिन्नस्य सत्काश्चत्वारो भागा इत्येवंरूपं सूर्यविकम्पेन- द्वे योजने अष्टचत्वारिंशदेकषष्टिभागा योजनस्य इत्येवंप्रमाणेन 'नियमात् ' निश्चयेन भजेद विभजेत्, विभक्ते च सति यद् भागलब्धं भवति तावत्प्रमाणास्ते सूर्यविकम्पा भवन्ति, तत एवं सूर्यविकम्पान् ज्ञात्वा यावन्तश्चन्द्रमण्डलान्तरे सूर्यमार्गा भवन्ति तावन्तः सूर्याः ज्ञातव्याः, तद्यथा- प्रथमे सर्वाभ्यन्तरे सूर्यमण्डले सूर्यः परिभ्रमति, चन्द्रोऽपि, चन्द्रश्च द्वितीये दिने तन्मण्डलक्षेत्रं मण्डलक्षेत्राच्च बहिरनन्तरं पंचत्रिंशद् योजनानि त्रिंशतं चैकषष्टिभागान् योजनस्य एकस्य चैकषष्टिभागस्य सप्तधा छिन्नस्य क्षेत्रं मण्डलक्षेत्राच्च बहिरनन्तरं पंचत्रिंशद् योजनानि त्रिंशतं चैकषष्टिभागान् योजनस्य एकस्य चैकषष्टिभागस्य सप्तधा छिन्नस्य सत्कान् चतुरो भागान् विकम्प्य चारं चरति, ततो विकम्पस्य परिमाणं षट्त्रिंशद्योजनानि पंचविंशतिरेक षष्टिभागा योजनस्य एकस्य चैकषष्टिभागस्य सप्तधाछिन्नस्य सत्काश्चत्वारो भागाः, अत्र योजनराशिरेकषष्टिभागकरणार्थमेकषष्ट्या गुण्यते, जातान्येकविंशतिः शतानि षण्णवत्यधिकानि २१९६, ये चोपरितनाः पंचविंशतिरेकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते, जातानि द्वाविंशतिः शतानि एकविंशत्यधिकानि २२२१, सूर्यविकम्पो द्वे योजने अष्टचत्वारिंशदेकषष्टिभागा योजनस्य, तत्र द्वे योजने एकषष्टिभागकरणार्थमेकषष्ट्या गुण्येते, जातं द्वाविंशत्यधिकं शतं १२२, उपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतम् १७०, एतेन पूर्वराशेर्भागो ह्रियते, लब्धास्त्रयोदश, एतावन्तः सूर्यविकम्पा एकस्मिन् चन्द्रविकम्पे भवन्ति, शेषं तिष्ठत्येकादशैकषष्टिभागा एकस्य चैकषष्टिभागस्य सप्तधा छिन्नस्य सत्काश्चत्वारो भागाः, द्वयोश्च चन्द्रमण्डलयोरपान्तराले द्वादश सूर्यमार्गा भवन्ति, एकस्य सूर्यमार्गस्य सर्वाभ्यन्तर एव मण्डले भावात्, एवं शेषेष्वपि चन्द्रमण्डलान्तरेषु पूर्वपूर्वचन्द्रमण्डलान्तरोद्धरितभागपरिमीलनेन यथोक्तसूर्यमार्गप्रमाणं परिभावनीयं भावयिष्यते चायमर्थोऽग्रे स्वयमेव सूत्रकृतेति न प्रतिचन्द्रमण्डलान्तरं भावना क्रियते ॥ २०० ॥ तदेवमुक्तं चन्द्रमण्डलान्तरेषु सूर्यमार्गप्रतिपादनार्थं करणं, सम्प्रति सूर्यमण्डलान्तरपरिमाणं चन्द्रमण्डलांतरपरिमाणं च प्रतिपादयति