________________
अधिकार दसमो - मंडल विभाग
१८३
इह चन्द्रमसः पंचदश मण्डलानि, एतच्च प्रागेवोक्तं, तत्र पंच मण्डलानि जम्बूद्वीपे, शेषाणि तु दश मण्डलानि लवणसमुद्रे, उक्तं च-"जम्बूहीवे णं भंते ! दीवे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नता ?, गोयमा ! जंबुद्दीवेणं दीवे असीयं सयं ओगाहित्ता एत्थ पंच चंदमण्डला पन्नता ॥ लवणे णं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया चंदमण्डला पन्नत्ता ?, गोयमा ! लवणे णं समुद्दे तिण्णि तीसे जोयणसए ओगाहित्ता एत्थ णं दस चंदमण्डला पन्नत्ता, एवमेव सपुव्वावरेणं जंबुद्दीवे लवणे य समुद्दे पन्नरस चंदमण्डला भवंतीतिमक्खायं" [जम्बूद्वीप प्रज्ञप्ति सू. १४२] तत्र पंच मण्डलान्यभ्यन्तराणि जम्बूद्वीपमध्यवर्तीनि, पंच सर्वबाह्यानि, सर्वसंख्यया दश मण्डलानि, तद्यथा- प्रथमं द्वितीयं तृतीयं चतुर्थं पंचमेकादशं द्वादशं त्रयोदशं चतुर्दशं पंचदशमिति रविशशिनोः सामान्यानि-साधारणानि, शेषाणि तु षष्ठसप्तमाष्टमनवमदशमरूपाणि पंच मण्डलानि चन्द्रस्य प्रत्येकं भवति, किमुक्तं भवति ?- चन्द्रमस एव तानि मण्डलानि, न तु जातुचिदपि तेषु सूर्यः परिभ्रमति, तथा चोक्तं [सूर्यप्रज्ञ. सूत्र ४५]"तत्थ जे ते चंदमण्डला सया आइच्चेहिं विरहिया ते णं पंच, तंजहा-छडे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमण्डले नवमे चंदमंडले दसमे चंदमंडले" अत्र संग्रहणिगाथा- “छटुंसत्तमअट्ठमनवमं दसमं च मंडला पंच । आइच्चेहिं विरहिया नेयव्वा सव्वकालंमि ॥ १ ॥" १९८ ॥ सम्प्रति कस्मिन् चन्द्रान्तरे कति सूर्यमार्गा भवंति ? इत्येतनिरूपयन्नाह
चंदंतरेसु अट्ठसु अभितरबाहिरेसु सूरस्स । बारस बारस मग्गा छसु तेरस तेरस भवंति ॥ १९९ ॥
१. छाया - "जम्बूद्वीपे भदन्त ! द्वीपे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि ? गौतम ! जम्बूद्वीपे द्वीपे ऽशीति शतमवगाह्यात्र पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि ॥ लवणे भदन्त ! समुद्रे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणे समुद्रे त्रिणि त्रिंशद्योजन शतान्यवगाह्यात्र दश चन्द्रमण्डलानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जम्बूद्वीपे लवणे च समुद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातम् ।"
२. "तत्र ये ते चन्द्रमण्डलानि सदा आदित्यै विरहितानि तानि पञ्च, तद्यथा-षष्ठं चन्द्रमण्डलं सप्तमं चन्द्रमण्डलं, अष्टमं चन्द्रमण्डलं नवमं चन्द्रमण्डलं, दशमं चन्द्रमंडलं ।"
३. “षष्ठ सप्तमाष्टमनवमं दशमं च मंडलानि पञ्च । आदित्यै विरहितानि ज्ञातव्यानि सर्वकाले ॥१॥"