________________
१७४
ज्योतिष्करण्डकम्
"मदरस्स णं भंते ! पव्वयस्स कइ कंडा पन्नता ?, गोयमा ! तिन्नि कंडा पन्नत्ता, तं जहा- हेडिल्ले कंडे मज्झिल्ले कंडे उवरिमे कंडे, मंदरस्स णं भंते ! पव्वयस्स हिडिल्ले कंडे कइविहे पन्नते ? गोयमा ! चउव्विहे पन्नत्ते, तंजहा-पुढवी उवले वइरे सक्करा । मंदरस्स णं भंते ! पव्वयस्स मज्झिल्ले कंडे कइविहे पन्नत्ते ? चउविहे पन्नत्ते, तंजहा-अंके फलिहे रयए जायरूवे । मंदरस्स णं भंते । पव्वयस्स उवरिमे कंडे कइविहे पन्नत्ते ? गोयमा ! एगागारे, सव्वजंबूणयामए" इति, अतो भवति सर्वरत्नधातुचितः, शिखरे च तस्योपरि सर्ववैडूर्यरत्नमयी चूलिका, सा च चत्वारिंशद्योजनान्युच्चा, मूले विस्तृता द्वादश योजनानि मध्ये अष्टावुपरि चत्वारि, तया च चूलिकया पताकशतपरिकल्पितः शक्रध्वज इव देवानां प्रतिभासते, पुनः कथम्भूतः ? इत्याह-'सुक्रीडो देवराजानां, सुष्ठ-अतिशयेन परमरमणीयतया क्रीड्यते इति सुक्रीडः, परमं क्रीडास्थानं देवराजानां, तस्मिंश्च मंदरपर्वते चत्वारि वनानि तिस्त्रो मेखलास्तद्यथा-भूमौ भद्रशालवनं समोच्चभूमितालदूर्ध्वं पंचयोजनशतान्युत्प्लुत्यात्रान्तरे पंचयोजनशतविस्तीर्णा प्रथममेखला, तत्र नन्दनवनं, ततो नन्दनवनादूर्ध्वं त्रिषष्टियोजनसहस्राण्यूर्ध्वमुत्प्लुत्यात्रान्तरे पंचयोजनशतविस्तृता द्वितीया मेखला, तत्र सौमनसं वनं, ततोऽपि सौमनसवनादूर्ध्वं षट्त्रिंशद्योजनसहस्राण्युत्प्लुत्यात्रान्तरे मेरोरुपरितनं तलं, तच्च योजनसहस्रविस्तारं, तत्र च चूलिकायाः सर्वासु दिक्षु पण्डकवनं, तस्मिंश्च पण्डकवने पंचयोजनशतायामा अर्द्धतृतीययोजनशतविस्तृताश्चतस्त्रो महाशिलाः, तासु च शिलासु तीर्थकराभिषेकयोग्यानि पंचधनुःशतोत्सेधानि परमरम्याणि शाश्वतिकानि सिंहासनानि ॥ १८८-१८९ ॥ साम्प्रतमुपरितलादधोऽवतरणे ईप्सितक्षेत्रे विष्कम्भपरिणामज्ञापनार्थं करणमाह
ગાથાર્થ - જંબૂદ્વીપના બહુમધ્યભાગે સર્વરત્ન ધાતુયુક્ત દેવરાજાઓનો સુક્રોડ મેરૂ નામનો નગશ્રેષ્ઠ છે. તે નવ્વાણું હજાર યોજન ઊંચો હજાર યોજન જમીનમાં અવગાઢ तथा ५२ताना त ५२ ६२ २ योन विस्ती छ. ॥ १८८ - १८८ ॥
ટીકાર્થ :- જંબૂદ્વીપના બહુમધ્ય દેશભાગમાં મેરૂ નામનો પર્વત છે તે ધરતી તલ
___१. मन्दरस्य भदन्त ! पर्वतस्य कति काण्डाः प्रज्ञप्ताः ? गौतम ! त्रयः कण्डाः प्रज्ञप्ता, तद्यथा- अधस्तनः कण्डः, मध्यस्थितः कण्डः उपरितन कण्डः मन्दरस्य खलु भन्ते ! पर्वतस्य अधस्तनः कण्डः कतिविधिः प्रज्ञप्तः ? गौतम ! चतुर्विधाः प्रज्ञप्ताः, तद्यथा-पृथ्वी उत्पल वज्र शर्करा । मन्दरस्य भदन्त ! पर्वतस्य मध्ये कण्डाः कतिविधाः प्रज्ञप्ताः ? चतुर्विधाः प्रज्ञप्तास्तद्यथा - अङ्क स्फटिक रजत जातरूप । मंदरस्य भदन्त ! पर्वतस्योपरिमाः कण्डाः कतिविधाः प्रज्ञप्ताः ? गौतम ! एकाकाराः सर्वजम्बूनदमयाः ।