________________
१६४
ज्योतिष्करण्डकम्
धणुवग्गाओ नियमा जीवावग्गं विसोहइत्ताणं ।
सेसस्स य छब्भागे जं मूलं तं उसू होइ ॥ १८२ ॥ 'नियमात्' अवश्यन्तया धनुःपृष्ठवर्गाज्जीवावर्ग 'विशोध्य' अपनीय शेषस्य षड्भिर्भागे हृते यन्मूलमागच्छति तत् 'इषुः' इषुपरिमाणं भवति, तत्र भरतक्षेत्रस्य धनुःपृष्ठवर्गः सप्तकः षट्को द्विकोऽष्टौ च शून्यानि ७६२०००००००० तस्माज्जीवावर्गः सप्तकः पंचकः षट्कोऽष्टौ शून्यानि ७५६०००००००० इत्येवंरूपः शोध्यते, शेषं षट्कोऽष्टौ च शून्यानि ६०००००००० तिष्ठति, तस्य षड्भिर्भागे हृते जात एककोऽष्टौ च शून्यानि १००००००००, एतस्य वर्गमूलानयने लब्धानि दश सहस्राणि कलानां, तासामेकोनविंशत्या भागे हृते लब्धानि योजनानां पंच शतानि षड्विंशत्यधिकानि षट् कलाः, एतावान् भरतक्षेत्रस्येषुः, एवं सर्वेषामपि क्षेत्राणामिषव आनेतव्याः ॥१८२ ॥ सम्प्रति प्रकारान्तरेण जीवानयनाय करणमाह
छग्गुणमुसुस्स वग्गं धणुवग्गाओ विसोहइत्ताणं ।
सेसस्स वग्गमूलं तं खलु जीवं वियाणाहि ॥ १८३ ॥ इषो:- भरतादेविवक्षितक्षेत्रस्य सम्बन्धिनो वर्गं षड्गुणं-षड्भिर्गुणितं सन्तं धनुर्वर्गाद्विवक्षितभरतादिक्षेत्रसम्बन्धिधनुःपृष्ठवर्गाद्विशोध्य शेषस्य यद्वर्गमूलं लभ्यते तत् खलु जीवां विवक्षितभरतादिक्षेत्रस्य जानीहि, तत्र भरतक्षेत्रस्येषुः कलारूपदशसहस्रप्रमाणस्तस्य वर्ग एककोऽष्टौ शून्यानि १००००००००, एष षड्भिर्गुण्यते, जाताः षट्कोऽष्टौ शून्यानि ६००००००००, अमुं राशिं धनुःपृष्ठवर्गात् सप्तकः षट्को द्विकोऽष्टौ च शून्यानि ७६२०००००००० इत्येवंरूपात् विशोधयेत्, शेषं स्थितं सप्तकः पंचकः षट्कोऽष्टौ च शून्यानि ७५६००००००००, एतस्य वर्गमूलानयने लब्धो द्विकः सप्तकश्चतुष्को नवकः पंचकश्चतुष्क: २७४९५४, शेषमुद्वरति द्विको नवकः सप्तकोऽष्टकोऽष्टकश्चतुष्क: २९७८८४, छेदराशिस्तु पंचकश्चतुष्को नवको नवकः शून्यमष्टौ ५४९९०८, वर्गमूललब्धस्य तु कलाराशेर्योजनानयनार्थमेकोनविंशत्या भागो हियते, लब्धा यथोदितस्वरूपा भरतक्षेत्रस्य जीवा, एवं शेषाणामपि क्षेत्राणां जीवा आनेतव्याः ॥१८३॥ सम्प्रति बाहानयनाय करणमाह
महयो धणुपट्ठातो डहरागं सोहयाहि धणुपटुं । जं इत्थ हवइ सेसं तस्सद्धे निद्दिसे बाहं ॥ १८४ ॥
१.०ण संतुवग्गं- इति हे. प्रतौ ॥