________________
अधिकार दसमो मंडल विभाग
१६३
शून्यानि ७५६००००००००, अस्य वर्गमूलानयने लब्धो द्विकः सप्तकश्चतुष्को नवकः पंचकश्चतुष्कः २७४९५४, शेषमुद्वरति - द्विको नवकः सप्तकोऽष्टकोऽष्टकश्चतुष्कः २९७८८४, छेदराशिस्तु पंचकश्चतुष्को नवको नवकः शून्यमष्टौ ५४९९०८, वर्गमूललब्धस्य तु कलाराशेर्योजनानयनार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां चतुर्दश सहस्राणि चत्वारि शतान्येकसप्तत्याधिकानि कलाश्च पंच, उद्वरितकलाराश्यपेक्षया किंचिदूनैककला लभ्यत इति षट् कलाः किंचिदूना द्रष्टव्याः, एतावती भरतक्षेत्रस्य जीवा, उक्तं च- ' - 'चोद्द य सहस्साइं चत्तारि सयाई एगसयराई । भरहुत्तरद्धजीवा छच्च कला ऊणिया किंचि ॥१॥" एवं शेषाणामपि क्षेत्राणां जीवा आनेतव्याः ॥ १८० ॥ सम्प्रति धनुःपृष्ठानयनाय करणमाहउसुवग्गं छग्गुणियं जीवावग्गंमि पक्खिवित्ताणं ।
जं तस्स वग्गमूलं तं धणुपट्टं वियाणाहि ॥ १८१ ॥
-
इषुः- भरतादीनां सम्बन्धी बाणस्तस्य वर्गस्तमिषुवर्गं 'षड्गुणितं' षड्भिस्ताडितं जीवावर्गे ‘प्रक्षिप्य' संयोज्य तस्य राशेर्यद् वर्गमूलं लभ्यते तद् विवक्षितस्य भरतादेर्धनुःपृष्ठंधनुःपृष्ठपरिमाणं जानीहि तदेतद् भरतक्षेत्रे भाव्यते - भरतस्य कलारूप इषुः सहस्रदशकरूपो वर्ग्यते, वर्गितश्च सन् जात एककोऽष्टौ च शून्यानि १००००००००, एष भूयः षड्भिर्गुण्यते, जातः षट्कोऽष्टौ च शून्यानि ६००००००००, एष राशिर्भरतसत्के जीवावर्गे सप्तकः पंचकः षट्कोऽष्टौ च शून्यानि ७५६०००००००० इत्येवंरूपे प्रक्षिप्यते, ततो जातो राशिरेवंरूप:सप्तकः षट्को द्विकोऽष्टौ च शून्यानि ७६२००००००००, अस्य वर्गमूलानयने लब्धो द्विकः सप्तकः षट्कः शून्यं चतुष्कस्त्रिक: २७६०४३, शेषस्तु राशिरुद्वरति - द्विकः षट्को द्विक एकक: पंचक एककः २६२१५१, छेदराशि: पंचक: पंचको द्विकः शून्यमष्टकः षट्कः ५५२०८६, वर्गमूललब्धस्तु कलाराशिर्योजनकरणार्थमेकोनविंशत्या विभज्यते, लब्धानि योजनानां चतुर्दश सहस्राणि पंचशतान्यष्टाविंशत्याधिकानि कलाश्चैकादश १४५२८ कः ११ एतावद् भरतक्षेत्रस्य धनुःपृष्ठं, तथा चोक्तं- 'चउर्दस य सहस्साइं सयाइं पंचेव अट्टवीसाई । एक्कारस य कलाओ धणुपट्टं भरहखित्तस्स ॥१॥" एवं शेषाणामपि क्षेत्राणां धनुःपृष्ठान्यानेतव्यानि ॥ १८१ ॥ इहेषुवर्ग: षड्गुणित इत्युक्तं तत इषोरानयनाय करणमाह
१. चतुर्दशश्च सहस्राणि शतानि पञ्चैवाष्टाविंशानि एकादश च कलाः धनुः पृष्टं भरत क्षेत्रस्य ॥ १ ॥” ★ जम्बूद्वीप प्रज्ञप्तौ - "तीसे धणुपट्टे दाहिणेणं चोद्दस जोअणसहस्साइं पंच अट्ठावीसे जोअणसए एक्कास य एगुणवीसइ भाए जोअणस्स परिक्खणं ।