________________
आह
અધિકાર-૧૦ : મંડલ વિભાગ
तदेवमुक्तं नवमं प्राभृतं, सम्प्रति मण्डलविभागप्रतिपादकं दशमं प्राभृतं वक्तुकाम
सुणाहि तो पविभागं मंडलाणं तु ॥ १७३
अत ऊर्ध्वं चन्द्रमण्डलानां प्रविभागं च मे यथाऽऽगमं प्रतिपादयतः शृणु ॥ तत्र मण्डलप्रविभागोऽस्मिन् शास्त्रे जम्बूद्वीपगतः प्रतिपाद्य इति प्रथमतो जम्बूद्वीपवक्तव्यतामाहइमो समुद्दि जंबुद्दीवो रहंगसंठाणो ।
विक्खंभु सयसहस्सं तु जोयणाणं भवे एक्वं ॥ १७४ ॥
अयं प्रत्यक्षत उपलभ्यमानो जम्बूद्वीपस्तीर्थकरगणधरैः समुद्दिष्टः- कथितो ‘रथाङ्गसंस्थानो' रथाङ्गं-चक्रं तस्येव संस्थानं - आकारो यस्य स तथा, परिपूर्णशशाङ्कमण्डलमिव वृत्त इत्यर्थः, तस्य विष्कम्भो योजनानां प्रमाणांगुलनिष्पन्नानामेकं शतसहस्रं भवति, उपलक्षणमेतत् तेनाऽऽयामोऽपि तस्य शतसहस्रं भवतीत्यवसेयं, वृत्तत्वात् ॥ १७४ ॥ अस्मिश्च जम्बूद्वीपे भरतादीनि क्षेत्राणि वर्त्तन्ते ततस्तानि प्रतिपादयन्नाह -
भरहं तह हेमवयं हरिवासं तह विदेहवासं च ।
रम्म हेरण्णवतं एरवयं सत्तमं वासं ॥ १७५ ॥
अमूनि क्षेत्राण्यत्रत्यं प्रज्ञापकमपेक्ष्यानेन क्रमेण व्यवस्थितानि तद्यथा- प्रथमं भरतं - भरतक्षेत्रं, तच्च प्रत्यक्षत उपलभ्यमानं तत एतदनन्तरमुत्तरतो द्वितीयं हैमवतं क्षेत्रं, तस्याप्युत्तरतोऽनन्तरं तृतीयं हरिवर्षक्षेत्रं, तस्याप्युत्तरतश्चतुर्थं महाविदेहवर्षं, पंचमं अतोऽपि