________________
१५०
ज्योतिष्करण्डकम् विंशतानि-एकविंशत्यधिकानि षड् मुहूर्ताः ‘रोहिणी'रोहिणीसूचकाः ॥ १६९ ॥ त्रीणि शतान्येकषष्टानि-एकषष्ट्यधिकानि द्वादश मुहूर्ताः, एतावच्छोधनकं 'पुनर्वसोः' पुनर्वसुनक्षत्रस्य, एतानि च शोधनकानि पुष्यं मुक्त्वा शेषाणि व्यर्द्धक्षेत्रपर्यन्तानामुक्तानि, तदेतेषामपान्तराले यानि नक्षत्राणि तान्यात्मीयेन प्रमाणेन शोध्यन्ते - तद्यथा - अर्द्धक्षेत्राणि षड्भिरहोरात्रैरेकविंशत्या च मुहूर्तेः, समक्षेत्राणि त्रयोदशभिर्दिनै‘दशभिश्च मुहूर्तः, व्यर्द्धक्षेत्राणि विंशत्या दिनैस्त्रिभिश्च मुहूर्त्तरिति, यत्पुनरुद्वरितं शोधनं न गच्छति तन्नक्षत्रं सूर्यगतमवसेयं, योऽपि च राशिः स्तोकतया षट्षष्ट्यधिकशतत्रयभागं न सहते तत्रापि यथायोगं शोधनं कर्त्तव्यम् । उक्तं करणं, सम्प्रत्येतद्विषया भावना क्रियते-युगस्य प्रथमे संवत्सरे चान्द्रे दशसु पर्वस्वतिक्रान्तेषु पंचम्यां केन नक्षत्रेण सह योगो दिवसाधिपतेः ? इति चिन्तायां पर्वसंख्या दश ध्रियन्ते, ते पंचदशभिर्गुण्यन्ते, जातं पंचाशदधिकं शतं १५०, दशानां च पर्वणामुपरि पंचम्याः प्राक् तिथयोऽतिक्रान्ताश्चतस्त्रः, ततस्तास्तत्र प्रक्षिप्यन्ते, जातं चतुष्पंचाशदधिकं शतं १५४, दशसु च पर्वसु द्वाववमरात्रौ, ततस्तौ तस्मात्पात्येते, जातं द्विपंचाशदधिकं शतम् १५२, अयं च राशिः षट्षष्ट्यधिकशतत्रयभागं न सहते ततो यथासम्भवं शोधनकं कर्त्तव्यं, तत्र षोडशाधिकेन शतेन विशाखान्तानि नक्षत्राणि शुद्धानि, शेषास्तिष्ठन्ति षट्त्रिंशत्- ततोऽनुराधा त्रयोदशभिरहोरात्रैदशभिर्मुहूर्तः शुद्धा, शेषाः तिष्ठन्ति द्वाविंशतिदिवसाः अष्टादश च मुहूर्ताः, पुनः षड्भिर्दिवसैरेकविंशत्या च मुहूर्तेज्येष्ठा शुद्धा, शेषाः पंचदश दिवसाः सप्तविंशतिर्मुहूर्ता अवतिष्ठन्ते, तेभ्यस्त्रयोदशभिदिवसै‘दशभिश्च मुहूर्तेमूलनक्षत्रं शुद्धं, शेषौ द्वौ दिवसौ पंचदश च मुहूर्तास्तिष्ठन्ति, एतावान् कालः पर्वदशकातिक्रमे पंचम्यां पूर्वाषाढाप्रविष्टस्य सूर्यस्याभूत् ॥ तथा युगस्य प्रथमसंवत्सरपर्यन्ते केन नक्षत्रेण सह समेतो भास्करः? इति चिन्तायां प्रथमसंवत्सरे पर्वाणि चतुर्विंशतिः, तानि पंचदशभिर्गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि ३६०, संवत्सरे च षड् अवमरात्रा इति षट् तेभ्य: पात्यन्ते, जातानि त्रीणि शतानि चतुष्पंचाशदधिकानि ३५४, अत्रापि त्रिभिः शतैः षट्षष्ट्यधिकैर्भागो न पूर्यते ततो यथासंभवं शोधनं कर्त्तव्यं, तत्र त्रिभिः शतैरेकविंशत्यधिकैः षड्भिश्च मुहूर्ते रोहिण्यन्तानि नक्षत्राणि शुद्धानि, शेषास्तिष्ठन्ति द्वात्रिंशदहोरात्राश्चतुर्विंशतिश्च मुहूर्ताः, तेभ्योऽपि त्रयोदशभिर्दिवसैादशभिश्च मुहूतैर्मृगशिरोनक्षत्रं शुद्धं, शेषमवतिष्ठते एकोनविंशतिरहोरात्रा द्वादश च मुहूर्ताः, तेभ्योऽपि षड्भिदिवसैरेकविंशत्या च मुहूर्तेरा नक्षत्रं शुद्धं, शेषास्तिष्ठन्ति द्वादश दिवसा एकविंशतिर्मुहूर्ताः, एतावान् कालस्तदानीं पुनर्वसुनक्षत्रं प्रविष्टस्य सूर्यस्याभवत्, इह यन्नक्षत्रमहोरात्रं कालं यावच्चन्द्रेण सह योगमुपारुढं