________________
अधिकार नवमो - नक्षत्र योग
१४९
पव्वं पन्नरसगुणं तिहिसहियं ओमरत्तपरिहीणं । तीहि छावढेहिं संहिए सेसंमि सोहणगं ॥ १६६ ॥ चउवीसं च महत्ता अट्टेव य केवला अहोरत्ता । एए पुस्से सोज्झा एत्तो सेसाण वोच्छामि ॥ १६७ ॥ राइंदिया बिसट्ठी य, मुहुत्ता बारसुत्तरा फग्गु । सोलस सयं विसाहा वीसंदेवा य तेसीयं ॥ १६८ ॥ बि चउप्पण्णा छच्चेव मुहुत्ता उत्तरा उ पोटुवया । तिण्णेव एक्कवीसा छच्च मुहुत्ता उ रोहिणिया ॥ १६९ ॥ [जोगो] तिन्नेगट्ठा बारस य मुहुत्ता सोहणं पुणव्वसुणो ।
जं सोहणं न गच्छइ तं नक्खत्तं तु सूरगयं ॥ १७० ॥ युगमध्ये विवक्षितादिनात्प्राग् यानि पर्वाण्यतीतानि तत्सङ्ख्या स्थाप्यते, स्थापयित्वा च पञ्चदशभिर्गुण्यते, ततो विवक्षिताद् दिनात् प्रापर्वणामुपरि यास्तिथयोऽतिक्रान्तास्तत्सहिताः क्रियन्ते, ततस्तदनन्तरमधिकृताद्दिनादर्वाग् ये गता अवमरात्रास्तैः परिहीनः क्रियते, ते ततः पात्यन्त इत्यर्थः, ततः शेषस्य त्रिभिः शतैः षट्पष्टैः-षट्षष्ट्यधिकैविभजेत्-भागं हरेत्, भागे च हृते यच्छेषं तस्मिन् शेषे 'शोधनकं वक्ष्यमाणस्वरूपं कुर्यात् ॥ १६६ ॥ तत्र यस्मिन् शोधनके शुद्ध यन्नक्षत्रं शुद्धं भवति तदेतन्निरूपयन्नाह- 'चउवी'त्यादि, चतुर्विशतिर्मुहूर्ता अष्टौ च केवला:- परिपूर्णा अहोरात्राः, एते एतावन्तो मुहूर्ता अहोरात्राश्च 'पुष्ये' पुष्यनक्षत्रे शोध्याः, किमुक्तं भवति ?-एतेषु शोधितेषु पुष्यनक्षत्रं शोधितं भवतीति अत ऊर्ध्वं शेषाणां नक्षत्राणां शोधनकानि वक्ष्ये ॥ १६७ ॥ तान्येव क्रमेणाह- 'द्वाषष्टिः' द्वाषष्टिसंख्यानि रात्रिन्दिवानि द्वादश च मुहूर्ताः, एतावति शोधिते उत्तराफाल्गुनीनक्षत्रं शुद्धं भवति, तथा 'षोडशं' षोडशाधिकं शतं विशाखा विशाखापर्यंतसूचकं, ततस्तस्मिन् शोधिते विशाखान्तानि नक्षत्राणि शोधितानि भवन्तीति भावः, तथा 'त्र्यशीतं' त्र्यशीत्यधिकं शतं 'विष्वगदेवाः' विष्वग्देवाधिपतिरुत्तराषाढा इत्यर्थः, अत्राप्ययं भावार्थः-त्र्यशीत्यधिकं शतमुत्तराषाढापर्यंतसूचकमिति ॥ १६८ ॥ द्वे शते चतुष्पंचाशे-चतुष्पंचाशदधिके षट् च मुहूर्ता उत्तराषोष्ठपदा-उत्तराभाद्रपदा उत्तरभद्रपदपर्यन्तसूचक इत्यर्थः, ततस्त्रीणि शतान्येक १. भये अंसगसेसम्मि' पा.सू., 'गएहि जं सेसं तं वियाणहि जे०खं० । इत्यपि पाठभेदा उपलभ्यन्ते ॥