________________
१२४
ज्योतिष्करण्डकम्
एयं चेव य तिगुणं पुणव्वसूरोहिणीविसाहाणं । तिण्हं च उत्तराणं अवसेसाणं भवे दुगुणं ॥ १४२ ॥
विक्खम्भसीम भणिया नक्खत्ताणं च अपरिसेसाणं । ___ सर्वैरप्यनन्तज्ञानिभिः-उत्पन्नकेवलज्ञानैतीर्थकरैरभिजिन्नक्षत्रस्य दृष्टः सीमाविष्कम्भश्चन्द्रयोगयोग्य इत्यर्थः, पूर्वापरसीमापरिच्छिन्नं क्षेत्रपरिमाणमष्टानवतिशताधिकशतसहस्रसंख्यानां भागानां षट् शतानि त्रिंशदधिकानि ६३०, कथमेतदवसीयते ? इति चेदुच्यते इहाभिजितः सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकैकस्मिंश्च भागे त्रिंशद्भागपरिकल्पनादेकविंशतिस्त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि, एष चाभिजिन्नक्षत्रस्य सीमाविष्कम्भः सर्वडहरक:-शेषनक्षत्रापेक्षया सर्वलघुः ॥ १४० ॥ शतभिषजो भरण्या आाया अश्लेषायाः स्वातेयेष्ठायाश्च सर्वसंख्यया षण्णां नक्षत्राणां प्रत्येकं सीमाविष्कम्भश्चन्द्रयोगयोग्यं पूर्वापरसीमापरिच्छिन्नं क्षेत्रपरिमाणमष्टानवतिशताधिकशतसहस्रभागानां सम्बन्धि पंचोत्तरं सहस्रं १००५, तथाहि एतेषां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः सार्धास्त्रयस्त्रिंशद्भागाश्चन्द्रयोगयोग्याः, ततः त्रयस्त्रिंशत् त्रिंशता गुण्यते जातानि नव शतानि नवत्यधिकानि ९९०, अर्द्धस्यापि त्रिंशता गुणयित्वा द्वाभ्यां भागे हृते लब्धाः पंचदश, सर्वसंख्यया जातं पंचोत्तरं सहस्रम् १००५ ॥ १४१ ॥ पुनर्वसुरोहिणीविशाखानां तिसृणां चोत्तराणां-उत्तराषाढोत्तरभद्रपदोत्तरफाल्गुनीनां सर्वसंख्यया षण्णां नक्षत्राणां प्रत्येकमेतदेवानन्तरोक्तं भागपरिमाणं पंचोत्तरसहस्ररूपं त्रिगुणं वेदितव्यं, त्रीणि सहस्राणि पंचदशोत्तराणि भागानां सीमापरिमाणमवसेयमित्यर्थः, तथाहि-एतानि नक्षत्राणि व्यर्द्धक्षेत्राणि, ततः सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्का भागाश्चन्द्रयोगयोग्याः शतमेकमद्धं च प्रत्येकमवगन्तव्यं, तत्र शतं त्रिंशता गुण्यते, जातानि त्रीणि सहस्राणि, अर्द्धमपि त्रिंशता गुणयित्वा द्वाभ्यां विभज्यते लब्धाः पंचदशेति, अवशेषाणां श्रवणधनिष्ठाप्रभृतीनां पंचदशनक्षत्राणां तदेव पूर्वोक्तं पंचोत्तरसहस्रपरिमाणं द्विगुणं सद् भवति सीमापरिमाणं, द्वे सहस्र दशोत्तरे भागानां प्रत्येकं तेषां सीमापरिमाणमित्यर्थः, तानि हि समक्षेत्राणि, ततस्तेषां सप्तषष्टिखण्डीकृतस्याहोरात्रस्य क्षेत्रस्य सत्काः परिपूर्णा अपि सप्तषष्टिभागाः प्रत्येकमाविर्भवन्ति, ततः सप्तषष्टिस्त्रिंशता गुण्यते जाते द्वे सहस्रे दशोत्तरे इति ॥ १४२ । सम्प्रत्युपसंहारमाह-"विक्खंभे' त्यादि 'अपरिशेषाणामपि' समस्तानामपि, चशब्दोऽपिशब्दार्थः, स च भिन्नक्रमोऽत एवं योजितः,