________________
अधिकार पांचमो - अवमरात्रि
१०५
पंचदश्यां तिथाववमरात्रीभूतायां कस्मिन् पर्वणि प्रतिपद्रूपा तिथिः समाप्नोति ? इति ॥ ११३ - ११४ ॥ एवं शिष्यस्य प्रश्नमवधार्य निर्वचनमाचार्य आह
रूवाहिगा उ ओया बिगुणा पव्वा हवंति कायव्वा । एमेव हवइ जुम्मे एक्कत्तीसाजुया पव्वा ॥ ११५ ॥
इह याः शिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता द्विविधास्तद्यथा - ओजोरूपा युग्मरूपाश्च, ओजो-विषमं समं युग्मं तत्र च या ओजोरूपास्ताः प्रथमतो रूपाधिकाः क्रियन्ते, ततो द्विगुणाः तथा च सति तस्यास्तस्यास्तिथेर्युग्मपर्वाणि निर्वचनरूपाणि समागतानि भवन्ति ‘एमेव हवइ जुम्मे' इति या अपि युग्मरूपास्तिथय स्तास्वपि 'एवमेव' पूर्वोक्तेनैव प्रकारेण करणं प्रवर्त्तनीयं, नवरं द्विगुणीकरणानन्तरमेकत्रिंशद्युताः सत्यः पर्वाणि निर्वचनरूपाणि भवन्ति, इयमत्र भावना - यदाऽयं प्रश्नः - कस्मिन् पर्वणि प्रतिपद्यवमरात्रीभूतायां द्वितीया समापयतीति, तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको ध्रियते, स रूपाधिकः क्रियते, जाते द्वे रूपे, ते अपि द्विगुणीक्रियेते जाताश्चत्वारः आगतानि चत्वारि पर्वाणि, ततोऽयमर्थः- युगादितश्चतुर्थे पर्वणि गते प्रतिपद्यवमरात्रीभूतायां द्वितीया समाप्तिमुपयातीति, युक्तं चैतत्, तथाहि - प्रतिपद्युद्दिष्टायां चत्वारि पर्वाणि लब्धानि, पर्व च पंचदशतिथ्यात्मकं, ततः पंचदश चतुर्भिर्गुण्यन्ते, जाता षष्टिः, प्रतिपदि द्वितीया समापततीति द्वे रूपे तत्राधि प्रक्षिप्ते जाता द्वाषष्टिः, सा च द्वाष्ट्या भज्यमाना निरंशं भागं प्रयच्छन् लब्ध एक इत्यागत: प्रथमोऽवमरात्र इत्यविसंवादि करणं, यदा तु कस्मिन् पर्वणि द्वीतीयायामवमरात्रीभूतायां तृतीया समाप्नोति ? इति प्रश्नस्तदा द्वितीया किल परेणोद्दिष्टेति द्विको ध्रियते, स रूपाधिकः क्रियते, जातानि त्रीणि रूपाणि तानि द्विगुणीक्रियन्ते, जाताः षट्, द्वितीया तिथि: समेति षट् एकत्रिंशुद्युताः क्रियन्ते जाताः सप्तत्रिंशत्, आगतानि निर्वचनरूपाणि सप्तत्रिंशत्पर्वाणि, इदमुक्तं भवति - युगादितः सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोतीति इदमपि करणं समीचीनं, तथाहिद्वितीयामुद्दिष्टायां सप्तत्रिंशत्यपर्वाणि समागतानि, ततः सप्तत्रिंशत् पंचदशभिर्गुण्यन्ते, जातानि पंच शतानि पंचपंचाशदधिकानि ५५५, द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि तत्र प्रक्षिप्यन्ते, जातानि पच शतान्यष्टापंचाशदधिकानि ५५८, एषोऽपि राशिर्द्वाषष्ट्या भज्यमानो निरंशं भागं प्रयच्छतीति लब्धा नवेत्यागतो नवमोऽवमरात्र इति समीचीनं करणम्, एवं सर्वास्वपि तिथिषु करणभावना अवमरात्रसंख्या च स्वयं भावनीया,